SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ (४०६-२४), ननु चापान्तरालिकं स्वर्गादिफलमभिधीयते पातनाक्रमायातगाथायां तु 'जीवं मोएइ भवसहस्साउ' इत्यनेन मोक्षलक्षणं फलमभिधास्यते तत्कथं पातनागाथार्थयोर्न विरोध इति ?, तदयुक्तं, अभिप्रायापरिज्ञानात्, न ह्यत्र स्वर्गादिफलापेक्षयाऽपान्तरालशब्द उक्तः किन्तु 'उप्पत्ती निक्खेवो पयं पयत्थो' इत्यादिमूलद्वारगाथाक्रमेणाहदादीनां पञ्चानामपि नमस्कारस्य यत्समुदितं पर्यन्ते फलमभिधास्यते तदपेक्षया मोक्षलक्षणमपीदं प्रसङ्गत उच्यमानमपान्तरालिकं विवक्षितमिति न विरोधः। 'धंतपीति (४०७-१८) अत्यर्थमपि समर्थचित्तेनेत्यर्थः । 'तप्पणईणं गाहा' (४०७-१८), यस्मादेवं पूर्वोक्तनीत्या स एव शुभचित्तनिवन्धनत्वेनापत्कालाधुचितः तस्मात् तम्-क्रनन्तरोक्तं द्वादशाङ्गं श्रुतस्कन्धं प्रण| यन्ति-अर्थतः सूत्रतो वा विरचयन्तीति तत्प्रणयिनो, यदिवा तस्य-प्रस्तुतनमस्कारस्य योग्यास्तत्प्रणयिन उच्यन्ते अहदादय एव तेषां शुभेन चेतसा अयमेवाधिकृतनमस्कारः कृतज्ञतां कृतार्थतां चात्मनो मन्यमानेनानुस्मरणीयो-विधेय इति गाथार्थः । 'अर्थत' इति (४०८-३), सिद्धशब्दाभिधेयतामात्रेणेत्यर्थः । 'कोंकणा'इत्यादि (४०८-१७ कोंकणगदेसे), एकस्मिन्दुर्गे निवसन्तः कुङ्कुणदेशोद्भवाः पुरुषाः सह्यनाम्नः पर्वताद् गोधूमगुडघृततैलादिभाण्डमवतारयन्त्यारोहयन्ति च । 'कुंदुरुक्कपडिबोहियल्लउत्ति (४०८-२०), कुक्कुडेन रुतं कुर्वता प्रातन्निद्रां त्याजितः सन् इति भावः। 'रित्तत्थिक्कस्स'त्ति (४०८-२२), रिक्तस्य स्थितस्येत्यर्थः । 'अन्भुहिउ'त्ति (४०९-३), सोऽपि सिद्धकस्तत्रान्तरे संवेगमुपगतः-प्रव्रज्यां जग्राहेत्यर्थः॥ 'सो य मूयभावेणे'त्यादि (४०९-७.), दासीसुतः किल शिल्पविद्याध्ययनं न कार्यते, ततश्च रथकारेण स्वपुत्रेष्वध्याप्यमानेषु स दासीसुतो मूकत्वेनावतिष्ठतेकिलाहं न किञ्चिच्छृणोमीति, अथ च AACHALISADSONGRESEARCRACT Jain Education D o nal For Privale & Personal use only INuww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy