________________
आव० हारि० टीप्पणं
नादिनिषद्यास्वित्यादि (४०३-१७ ), श्मशानादिषु समुद्भूतानुपसर्गानेको-रागद्वेषविरहितः क्षमेतेति योगः, कथ-मायालोभम्भूतान् , -अनिष्टेष्टान् तत्रानिष्टा व्यन्तरादिकृतादृट्टहासादयस्तान् अभीः-निर्भयः सन् सहेत, इष्टास्तु दिव्याङ्गनाप्रार्थ- * स्वरूपं परी नादयस्तान् अस्पृहो-विगततदभिष्वङ्गः सहेतेति यथासङ्ख्य सम्बन्धः, व सहेतेत्याह-'ख्यादिकण्टकवर्जिते' (४०३-१८), पहकारिका तत्र वर्जनं वर्जितमभाव इत्यर्थः ख्यादय एव मोक्षपथप्रवृत्तानां विघ्नहेतुत्वेन कण्टका इव कण्टकास्तेषां वर्जितं-अ- व्याख्या भावस्तस्मिन् सति, एतदुक्तं भवति-प्रथम स्यादिकण्टकाभाववत्यपि श्मशानादिस्थाने समाश्रिते यदि पश्चात्कथञ्चिदागन्तुका इष्टा अनिष्टा वोपसर्गाः प्रादुर्भवन्ति तान् सम्यगेवारक्तद्विष्टः सहेतेति श्लोकार्थः । 'शुभाशुभास्वि'त्यादि, मनोज्ञामनो ज्ञासु शय्यासु-वसतिषु लब्धासु सतीषु तत्र मनोज्ञायां सुखे समुपस्थिते सति सङ्ग-तत्सुखाभिष्वङ्गं नेयात्-न गच्छेत् दुःखे च समुपस्थिते दुःखं सहेत नोद्विजेतेति यथाक्रम सम्बन्धः, किं पुनश्चेतसा भावयन्निदं कुर्यादित्याह-किं ममानया ( मनोज्ञया ) मनोज्ञया वा कर्त्तव्यं ?, यतः श्वः-आगामिनि दिने त्याज्या परिहर्त्तव्येयं, साधूनामेकत्रावस्थितेरभावात् कोऽत्र प्रतिबन्धो द्वेषो वेत्येवं मनसा परिभावयेदिति श्लोकार्थः। 'नाक्रुष्ट'इत्यादि श्लोकः (४०३-१९), सुगमो, नवरं 'साम्या'दिति रागद्वेषविरहितः सम उच्यते तस्य भावः साम्यं तस्मात् , किमुक्तं भवति ?-परेणाक्रुष्टोऽपि सम-IN तामवलम्ब्य सहेत न पुनस्तमाक्रोशेदिति । 'हतः सहेतैवेत्यादि (४०३-२०), केनचिल्लकुटादिना हतः-ताडितः सन्
॥ ५३॥ सहेत न पुनस्तं घ्नन्तं प्रतिहन्यात् , कथम्भूतः ?-साम्यमिति पूर्ववद्वेत्ति साम्यवित् क्षमैव कर्त्तव्या न परं प्रति क्रोधो मनसाऽपीति, अत्रोपपत्तिद्वारेण भावनामाह-'जीवानाशात् यद्यपि लकुटादिना ताडितोऽहं तथापि न ममानेन जीवित
For Private & Personal Use Only
Jjainelibrary.org
Jain Educatan