________________
सू०८८
श्रीस्थाना
सूत्रदीपिका वृत्तिः ।
॥८॥
100000000000000000000000000000000000000000000000000000000
'जम्बू' इत्यादि, इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणैते पद्मादयः पडेव हृदाः, तद्यथा-"पउमे य महापउमे, तेगिच्छी केसरी दहे चेव । हरए महपुंडरीए, पुंडरीए चेव य दहाओ॥१॥" हिमवत उपरि बहुमध्यभागे पद्महूदः, एवं शिखरिणः पोण्डरीकः, तौ च पूर्वापरायतौ सहस्रं पञ्चशतविस्तृतौ चतुष्कोणौ दशयोजनावगाढौ रजतकूलौ वज्रमयपाषाणौ तपनीयतलौ सुवर्णमध्यरजतमणिवालुकौ चतुर्दशमणिसोपानौ शुभावतारौ तोरणध्वजच्छत्रादिभूषितौ नीलोत्पलपुण्डरीकादिचितौ विचित्रशकुनिमत्स्यविचरितौ षट्रपदपटलोपभोग्याविति । 'तत्थ 'ति, तयोर्महादयो₹ देवते परिवसतः, पद्महदे श्री: पोण्डरीके लक्ष्मीः , ते च भवनपतिनिकायाभ्यन्तरभूते, पल्योपमस्थितिकत्वाद, व्यन्तरदेवीनां हि पल्योपमार्द्धमेवायुरुत्कर्षतोऽपि भवतीति । शेष हुदायामादि सर्व वृत्तितो ज्ञेयम् । 'जम्बू' इत्यादि, तत्र रोहिन्नदी महापद्महदाइक्षिणतोरणेन निर्गत्य षोडश पञ्चोत्तराणि योजनशतानि सातिरेकाणि दक्षिणतो गिरिणा गत्वा हाराकारधारिणा सातिरेकयोजनद्विशतिकेन प्रपातेन मकरमुखप्रणालेन महाहिमवतो रोहिदभिधानकुण्डे निपतति, मकरमुखजिह्वा योजनमायामेन अर्द्धत्रयोदशयोजनानि विष्कम्भेन क्रोशं बाहल्येन, रोहित्प्रपातकुण्डाञ्च दक्षिणतोरणेन निर्गत्य हैमवतवर्षमध्यभागवतिनं शब्दापातिवृत्तवैताढयमयोजनमप्राप्ताष्टाविंशत्या नदीसहस्रः संयुज्याधो जगतीं विदार्य पूर्वतो लवणसमुद्रमतिगच्छतीति, रोहिन्नदी हि प्रवाहेऽर्द्धत्रयोदशयोजनविष्कम्भा क्रोशोद्वेधा ततः क्रमेण वर्द्धमाना मुखे पञ्चविंशत्यधिकयोजनशतविष्कम्भा सार्द्धद्वियोजनोद्वेधा, उभयतो वेदिकाभ्यां वनखण्डाभ्यां च युक्ता, एवं सर्वा महानद्यः पर्वताः कूटानि च वेदिकादियुक्तानीति, हरिकान्ता तु महापद्मदादेवोत्तरेण तोरणेन निर्गत्य पञ्चोत्तराणि पोडशशतानि सातिरेकाणि
Jain Education
For Private & Personal use only
www.jainelibrary.org