________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
112.011
Jain Education Inter
उत्तराभिमुखी पर्वतेन गत्वा सातिरेकयोजनशतद्वयप्रमाणेन प्रपातेन हरिकान्ताकुण्डे तथैव पति, मकरमुख जिद्दादिप्रमाण पूर्वोद्विगुणं ततः प्रपातकुण्डादुत्तरतोरणेन हरिवर्षमध्यभागवर्त्तिनं गन्धापातिवृत्तवैतादयं योजनेनासंप्राप्ता पश्चिमाभिमुखीभूय षट्पञ्चाशत्सरित्सहस्रैः समग्रा समुद्रमभिगच्छति, इयं च हरिकान्ता प्रमाणतो रोहिनदीतो द्विगुणेति । ' एवं 'मित्यादि, एवमिति 'जम्बुद्दीवे' त्याद्यभिलापसूचनार्थः । हरिन्महानदी तिगिञ्छिह'दस्य दक्षिणतोरणेन निर्गत्य सप्त योजनसहस्राणि चत्वारि चैकविंशत्यधिकानि योजनशतानि सातिरेकाणि दक्षिणाभिमुखी पर्वतेन गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन हरिकुण्डे निपत्य पूर्वसमुद्रे प्रपतति शेष हरिकान्तासमानमिति । शीतोदामहानदी तिगिञ्छिदस्योत्तरतोरणेन निर्गत्य तावन्त्येव योजनसहस्राणि गिरिणा उत्तराभिमुखी गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन शीतोदाकुण्डे निपततीति, जिद्दिका मकरमुखस्य चत्वारि योजनानि आयामेन पञ्चाशद्विष्कम्भेण योजन बाहल्येन, कुण्डादुत्तरतोरणेन निर्गत्य देवकुरून् विभजन्ती चित्रविचित्रकूट पर्वतौ निषधहूदादीञ्च पञ्च हदान् द्विधा कुर्वती चतुरशीत्या नदीसहस्रैरापूर्यमाणा भद्रशालवनमध्येन मेरु योजनद्वयेनाप्राप्ता प्रत्यङ्मुखी आवर्त्तमाना अधो विद्युत्प्रभ वक्षारपर्वत दारयित्वा मेरोरपरतोऽपरविदेहमध्यभागेन एकैकस्माद् विजयादष्टाविंशत्या अष्टाविंशत्या नदीसह त्रैरापूर्यमाणा अधो जयन्तद्वारस्य अपरसमुद्रं प्रविशतीति, शीतोदा हि प्रवाहे पञ्चाशद्योजनविष्कम्भा योजनोद्वेधा ततो मात्रया परिवर्द्धमाना मुखे पञ्चयोजनशतविष्कम्भा दशयोजनोद्वेधेति । 'जम्बू ' इत्यादि, शीता महानदी केसरिहदस्य दक्षिणतोरणेन निर्गत्य कुण्डे पतित्वा मेरोः पूर्वतः पूर्वविदेहमध्येन विजयद्वारस्याधः
For Private & Personal Use Only
सू० ८८ ।
118,011
www.jainelibrary.org