________________
श्रीस्थानाङ्ग
| सू०८८।
दीपिका वृत्तिः ।
14.0000000000000000000000000000000000000000000000000000000004
पूर्वसमुद्रं शीतोदासमानशेषवक्तव्या प्रविशतीति । नारीकान्ता तु उत्तरतोरणेन निर्गत्य कुण्डे पतित्वा हरिन्महानदीसमानवक्तव्या रम्यकवर्षमध्येनापरसमुद्रं प्रविशतीति । 'एव'मित्यादि, नरकान्ता महापुण्डरीकहूदादक्षिणतोरणेन विनिर्गत्य रम्यकवर्ष विभजन्ती हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता । रूप्यकूला तु तस्यैवोत्तरतोरणेन निर्गत्य ऐरण्यवर्ष विभजन्ती रोहिनदीतुल्यवक्तव्या अपरसमुद्र गच्छतीति । 'जम्बू' इत्यादि, 'पवायदह 'त्ति प्रपतनं प्रपातस्तदुपलक्षितौ इदौ प्रपातहूदौ, इह यत्र हिमवदादे गाद् गङ्गादिका महानदी प्रणालेनाधो निपतति स प्रपातहूदः प्रपातकुण्डमित्यर्थः, 'गंगापवायदहे चेव 'त्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्मइदस्य पूर्वतोरणेन निर्गत्य पूर्वाभिमुखी पञ्च योजनशतानि गत्वा गङ्गावर्तनकूटे आवृत्ता सती पञ्च त्रयोविंशत्यधिकानि योजनशतानि साधिकानि दक्षिणाभिमुखी पर्वतेन गत्वा गङ्गामहानदी अर्द्धयोजनायामया सक्रोशपइयोजनविष्कम्भयाऽर्धक्रोशबाहल्यया जिहिकया युक्तेन विवृतमहामकरमुखप्रणालेन सातिरेकयोजनशतिकेन मुक्तावलीकल्पेन यत्र प्रपतति यश्च पष्टियोजनायामविष्कम्भः किञ्चिन्यूननवत्युत्तरशतपरिक्षेपो दशयोजनोद्वेधो नानामणिनिबद्धः, यस्य च पूर्वापरदक्षिणामु त्रयस्त्रिसोपानप्रतिरूपकाः सविचित्रतोरणा मध्यभागे च गङ्गादेवीद्वीपोऽष्टयोजनायामविष्कम्भः सातिरेकपञ्चविंशतियोजनपरिक्षेपो जलान्ताद द्विक्रोशोच्छूितो वज्रमयो गङ्गादेवीभवनेन क्रोशायामेन तदर्द्धविष्कम्भेन किञ्चिन्यूनकोशोच्चेनानेकस्तम्भशतसन्निविष्टेनालङ्कृतोपरितनभागः, यतश्च दक्षिणतोरणेन निर्गत्य प्रवाहे सक्रोशपड़योजनविष्कम्भाऽर्द्धकोशोद्वेधा गङ्गा उत्तरभरतार्द्ध विभजन्ती सप्तभिनंदीसहस्ररापूर्यमाणा अधः पूर्वतः खण्डप्रपातगुहाया वैताढयपर्वतं विदार्य दक्षिणार्द्धभरत विभजन्ती तन्मध्यभागेन गत्वा पूर्वाभिमुखी आवृत्ता सती
-0000000000000000000000000000000000000000000000000000000000
॥२१॥
Jan Education
For Private & Personal use only
www.jainelibrary.ory