________________
श्रीस्थानाङ्ग
दीपिका वृत्तिः ।
॥२२॥
चतुर्दशभिनंदीसहस्रः समग्रा मुखे साईद्विषष्टियोजनविष्कम्भा सक्रोशयोजनोद्वेधा जगी विदार्य पूर्वलवणसमुद्र प्रविशति स गङ्गाप्रपातहदः, एतदनुसारेण सिन्धुप्रपातहदोऽपि व्याख्यातव्यः, अत एव एतौ बहुसमादिविशेषणावायामविष्कम्भोद्वेधपरिणाहैर्भावनीयाविति, सर्व एव प्रपातहदा दशयोजनोद्वेधा वक्तव्या इति । यच्चेह वर्षधरनद्यधिकारे गङ्गासिन्धुरोहितांशानां तथा सुवर्णकूलारक्तारक्तवतीनामनभिधान तद् विस्थानकानुरोधात् , तासां हि एकैकस्मात् पर्वतात् त्रयं त्रयं प्रबहतीति द्विस्थानके नावतार इति । 'एव'मित्यादि एवमिति प्राग्वत् 'रोहियप्पवायदहे चेव 'त्ति रोहिदुक्तस्वरूपा यत्र प्रपतति यश्च सविंशतिक योजनशतमायामविष्कम्भाभ्यां किञ्चिन्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण, यस्य च मध्यभागे रोहिद्द्वीपः पोडशयोजनायामविष्कम्भः सातिरेकपश्चाशद्योजनपरिक्षेपः जलान्ताद् द्विक्रोशोचिठूतो यश्च रोहिदेवताभवनेन गङ्गादेवताभवनसमानेन विभूषितोपरितनभागः स रोहित्प्रपातहूद इति । 'रोहियंसप्पवायदहे चेव 'त्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्मदोत्तरतोरणेन निर्गत्य रोहितांशा महानदी द्वे पट्सप्तत्युत्तरे योजनशते सातिरेकम् उत्तराभिमुखी पर्वतेन गत्वा योजनायामया अर्द्धत्रयोदशयोजनविष्कम्भया क्रोशबाहल्यया जिहिकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च रोहित्प्रपातकुण्डसमानमानः यस्य च मध्ये रोहितांशाद्वीपो रोहिद्द्वीपसमानमानो रोहितांशाभवनेन प्रागुक्तमानेनालकृतः, यतश्च रोहितांशानदी रोहिन्नदीसमानमानोत्तरतोरणेन निर्गत्य पश्चिमसमुद्रं प्रविशति स रोहितांशाप्रपातहद इति । 'जम्बू'इत्यादि, 'हरिप्पवायदहे' इत्यादि सर्व वृत्तितो ज्ञेयं यावत् 'जह 'ति यथा पूर्व वर्षे २ द्वौ द्वौ प्रपातहृदावुक्तो एवं नद्यो वाच्याः , ताश्चैव-"गङ्गा १ सिंधू २
るるるるるるるるるるる?ややややややや???????????やるやるるるるるるるるるるる
॥२२॥
Jandulan Intan
For Private & Personal use only
www.jainelibrary.org