________________
सू०८७।
श्रीस्थानाङ्गसूत्रदीपिका वृत्तिः ।
||८६||
3-00-000000000000000000000000000000000000000000000
'दो दीहवेयडूढ'त्ति, वृत्तवैतादयव्यवच्छेदार्थ दीर्घग्रहणं, वैताढयौ विजयवैताढयो वेति संस्कारः, तौ च भरतेरावतयोर्मध्यभागे पूर्वापरतो लवणोदधि स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छूितौ तत्पादावगाढी पञ्चाशद्विस्तृत्तौ आयतसंस्थितौ सर्वराजतावुभयतो बहिः काञ्चनमण्डनाकाविति, "भारहए ण 'मित्यादि, वैताढयेऽपरतस्तमिस्रागुहा गिरिविस्तरायामा द्वादशयोजनविस्तारा अष्टयोजनोच्छ्या आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वनकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजलानिमग्नजलाभिधानाभ्यां नदीभ्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपातागुहेति 'तस्थ ण 'ति तयोः तमिस्रायां कृतमालक इतरस्यां नृत्तमालक इति । 'एरावए' इत्यादि तथैव । 'जंबू' इत्यादि, हिमवद्वर्षधरपर्व ते ह्येकादशकूटानि सिद्धायतन १ क्षुल्लहिमवत् २ भरत ३ इला ४ गङ्गा ५ श्री ६ रोहितांशा ७ सिन्धु ८ सुरा ९ हैमवत १० वैश्रमण ११ कूटाभिधानानि भवन्ति, पूर्वदिशि सिद्धायतनकूट, ततः क्रमेणापरतोऽन्यानि सर्वरत्नमयानि स्वनामदेवतास्थानानि पञ्चयोजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, आद्ये सिद्धायतनं पञ्चाशद्योजनायाम तदर्द्धविष्कम्भ पत्रिंशदुच्चम् अष्टयोजनायामैः चतुर्योजनविष्कम्भप्रवेशैः त्रिभिरि रुपेतं जिनप्रतिमाष्टोत्तरशतसमन्वित, शेषेषु प्रासादाः सार्द्धद्विषष्टियोजनोच्चास्तदर्द्धविस्तृतास्तनिवासिदेवतासिंहासनवन्त इति । इह तु प्रकृतनगनायकनिवासभूतत्वाद्देवनिवासभूतानां तेषां मध्ये आद्यत्वाच्च हिमवत्कूट गृहीत सर्वान्तिमत्वाच्च वैश्रवणकूटं द्विस्थानकानुरोधेनेति, आह च “ कत्थइ देसग्गहण, कत्थइ
00000000000000000000000000000000000000000000000000
॥८६॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org