SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥८५॥ Jain Education Internatio एवं महाहिमवदादयोऽपीति, एषामायामादयो विशेषतः क्षेत्रसमासाद् अवसेयाः, 'जंबू' इत्यादि ' दो व वेयइढपञ्वय'त्ति, द्वौ वृत्तौ पल्याकारत्वाद् वैताढ्यौ नामतः तौ च तौ पर्वतौ चेति विग्रहः, सर्वतः सहस्रपरिमाण रजतमयौ, तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति, ' तत्थ 'ति तयोर्वृत्तवैताययोः क्रमेण स्वातिप्रभासौ देवौ वसतः तद्भवन भावादिति । एवं हरिवर्षे गन्धापाती रम्यग्वर्षे माल्यवत्पर्यायौ देवौ क्रमेणैवेति । प्रागिव व्याख्या 'जंबू ' इत्यादि ' पुब्वावरे पासे 'ति, पार्श्वशब्दस्य प्रत्येक सम्बन्धात् पूर्वपार्श्वे अपरपार्श्वे च किंभूते-' एल्थ 'त्ति प्रज्ञाप केनोपदर्श्यमाने क्रमेण सौमनसविद्युत्प्रभौ प्रज्ञप्ती, किंभूतौ ? -अवस्कन्धसदृशावादौ १ निमग्नौ पर्यवसान उन्नतौ यतो निषधसमीपे चतुःशतोच्छ्रितौ मेरुसमीपे तु पञ्चशतोच्छ्रिताविति, आह च - " वासहरगिरि तेण, रुंदा पंचेव जोयणसयाई । चत्तारि सउव्विद्धा, ओगाढा जोयणाण सयं ॥ १ ॥ पंचसए उब्विद्धा, ओगाढा पंच गाउयसयाई । अंगुल असंखभागो विच्छिन्ना मंदरंतेण ||२|| वक्रखारपव्वयाणं, आयामो. तीस जोयणसहस्सा । दोनि य सया नवहिया, छच्च कलाओ चउन्ह पि ॥३॥”त्ति, 'अवद्धचंद'त्ति अपकृष्टमर्द्ध चन्द्रस्यापार्द्धचन्द्रस्तस्य यत्संस्थानमाकारो गजदन्ताकृतिरित्यर्थः, तेन संस्थितावपार्द्धचन्द्रसंस्थानसंस्थितौ, अर्द्धचन्द्रसंस्थानसंस्थिताविति क्वचित् पाठः, तत्रार्द्धशब्देन विभागमात्र विवक्ष्यते, न तु समप्रविभागतेति, ताभ्यां चार्द्धचन्द्राकारा देवकुरवः कृताः, अत एव वक्षाराकारक्षेत्रकारिणौ पर्वतौ वक्षारपर्वताविति । 'जंबू' इत्यादि तथैव, नवरम् अपरपार्श्वे गन्धमादनः पूर्वपार्श्वे माल्यवानिति । १ निम्नौ पाठा० ! For Private & Personal Use Only सू० ८७ । ॥८५॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy