________________
सू०८५ ।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
11001
द्वयानामुभयेषामित्यर्थः, कायस्थितिः सप्ताष्टभवग्रहणरूपा, पृथिव्यादीनामपि साऽस्ति, न चानेन तदव्यवच्छेदः, अयोगव्यवच्छेदपरत्वात् सूत्राणामिति १७, 'दोहे'त्यादि देवनारकाणां भवस्थितिरेव, देवादेः पुनर्देवादित्वेनानुत्पत्तरिति १८ 'दुविहे' इत्यादि, अद्धा-कालः तत्प्रधानमायु:-कर्मविशेषोऽद्धायुः, भवात्ययेऽपि कालान्तरानुगामीत्यर्थो, यथा मनुष्यायुः कस्यापि भवात्यय एव नापगच्छत्यपि तु सप्ताष्टभवमानं कालमुलतोऽनुवर्तत इति, तथा भवप्रधानमायुभवायुः, यद् भवात्यये अपगच्छत्येव न कालान्तरमुपयाति, यथा देवायुरिति १९, 'दोण्ह'-5 मित्यादि सूत्रद्वयं भावितार्थमेव २०-२१, 'दुविहे कम्मे त्ति, प्रदेशा एव-पुद्गला एव यस्य वेद्यन्ते न यथाबद्धो रसस्तत्प्रदेशमात्रतया वेद्य कर्म, यस्य त्वनुभावो यथाबद्धरसो वेद्यते तदनुभावतो वेद्यं कर्मानुभावकर्मेति२२, 'दो' इत्यादि, यथावद्धमायुयथायुः पालयन्ति-अनुभवन्ति नोपक्रम्यते तदिति,-"देवा नेरइयावि य, असंखवासाउया य तिरिमणुया। उत्तमपुरिसा य तहा, चरमसरीरा य निरुवकमा ॥१॥” इति वचने सत्यपि देवनारकयोरेवेह भणनं द्विस्थानकानुरोधादिति २३, दोण्ड'मित्यादि, संवर्तनमपवर्तनं संवतः, स एव संवर्तकः, उपक्रम इत्यर्थः, आयुषः संवर्तकः आयुःसंवर्तक इति २४ । पर्यायाधिकारादेव नियतक्षेत्राश्रयित्वात् क्षेत्रव्यपदेश्यान् पुदगलपर्यायानभिधित्सुः 'जंबुद्दीवे' इत्यादिना क्षेत्रप्रकरणमाह
१ मनुयाति पाठा०।
॥८
॥
Jain Education internet
FOT Pale & Personal Use Only
Neww.jainelibrary.org