SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥७९॥ Jain Education Interna ३, गर्भे - गर्भाशये व्युत्क्रान्तिरुत्पत्ति-गव्युत्क्रान्ति:, मनोरपत्यानि मनुष्यास्तेषां तिरोऽञ्चन्ति गच्छन्तीति तिर्यञ्चस्तेषां सम्बन्धिनी योनिरुत्पत्तिस्थानं येषां ते तिर्यग्योनिकाः, ते चैकेन्द्रियादयोऽपि भवन्तीति विशिष्यन्ते - पञ्चेन्द्रियाश्च तिर्यग्योनिकाश्चेति पञ्चेन्द्रियतियंग्योनिकास्तेषाम् ४, तथा तयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति ५, वृद्धि: - शरीरोपचयः ६, निवृद्धिस्तद्धानिर्वातपित्तादिभिः, 'निशब्दस्याभावार्थत्वात् निवरा कन्येत्या' दिवत् ७. वैक्रियलब्धतां विकुर्वणा, गतिपर्यायश्चलनं मृत्या वा गत्यन्तरगमनलक्षणः, यच्च वैनियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्ग्रामयति स वा गतिपर्यायः, उक्तं च भगवत्यां - 'जीवेण भंते ! गन्भगए समाणे णेरइएमु उववज्जेज्जा ?, गोयमा !, अत्थेगइए उववज्जेजा अगइए नो उबवज्जेज्जा, से केणद्वेण गोयमा ! सेणं सनी पंचिदिए सव्वाहि पज्जतीहि पज्जत्तए वीरियलद्धीए बिउब्वियलद्धीए पराणीयं आगयं सोच्चा णिसम्म पएस णिच्छुब्भइ२ वेउव्वसमुग्धारणं समोहणइ चाउरंगिथि सेणं विउन्नइ२ चाउरंगिणीए सेणाए पराणीपण सद्धिं संगामं संगामेइ” इत्यादि ९, समुद्घातो मारणान्तिकादिः १०, कालसंयोगः - कालकृतावस्था ११, आयातिः - र्भान्निर्गमो १२, मरणं - प्राणत्यागः १३ 'दोन्हं छविपव्य'ति द्वयानाम् उभयेषां 'छवि' त्ति मतुब्लोपाच्छविमन्ति-सम्बन्ति 'पव्य'त्ति पर्वाणि सन्धिबन्धानि छविर्वाणि कचित् 'हवियत्त'त्ति पाठः तत्र छवियोगाच्छविः स एव छविकः स चासो 'अत्त'ति आत्मा च शरीरं छविकात्मेति, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् १४, 'दो मुक्के'त्यादि, द्वयोः शुक्रं -रेतः शोणितम्–आर्त्तवं ताभ्यां सम्भवो येषां ते तथा १५, 'काय हिति' ति काये - निकाये पृथिव्यादिसामान्यरूपेण स्थितिः कार्यस्थितिः असङ्ख्योत्सर्पिण्यादिका, भवे भवस्वरूपा वा स्थितिः भवस्थितिर्भवकाल इत्यर्थ १६, 'दोहं'ति For Private & Personal Use Only सु०८५ । ॥७९॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy