________________
श्रीस्थाना
सूत्र दीपिका वृत्तिः ।
॥७॥
दीनामनुचितानां तत्प्रतिपत्तिविवेकप्रतिमा, व्युत्सर्गप्रतिमा-कायोत्सर्गकरण मेवेति, भद्रा-पूर्वादिदिक्चतुष्टये प्रत्येक प्रहरचतपयकायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति, सुभद्राऽप्येवकारैव सम्भाव्यते, अदृष्टत्वेन तु नोक्तेति, महाभद्राऽपि तथैव, नवरमहोरात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयमाना, सर्वतोभद्रा तु दशसु दिक्षु प्रत्येकमहोरात्रकायोत्सर्गरूपा अहोरात्रदशकप्रमाणेति, मोकप्रतिमा-प्रस्रवणप्रतिमा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं व्यवहारे-"खुड्डियं णं मोयपडिमं पडिवण्णस्से"त्यादि, इयं च द्रव्यतः प्रखवणविषया, क्षेत्रतो ग्रामादेवहिः, कालतः शरदि निदाचे वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा तु षोडशभक्तेन, भावतस्तु दिव्याद्यपसगसहनमिति, एवं महत्यपि, नवरं भुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते अन्यथा त्वष्टादशभक्तेनेति, यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्र इव कलावृद्धि हानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि-शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य ततः प्रतिदिनं कवलवृद्धया पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदश भुक्त्वा प्रतिदिनमेकैकहान्याऽसावास्यायामेकमेव यस्यां भुङ्क्ते सा यवमध्या चन्द्रप्रतिमेति, एवं भिक्षादावपि वाच्यमिति ॥ प्रतिमाश्च सामायिकवतामेव भवन्तीति सामायिकमाह-'दुविहे' इत्यादि, समानां-ज्ञानादीनामायो-लाभः समायः स एव सामायिकमिति, तद् द्विविधम्-अगारवदनगारस्वामिभेदाद, देशसर्वविरती इत्यर्थः॥ जीवधर्माधिकार एव तद्धर्मान्तराणि आह
दोण्ह उववाए ५० त०-देवाण चेव नेरइयाण चेव १, दोण्ह उव्वट्टणा पं० त०-णेरेयाण चेव भवणवासीण चेव २ दोण्ह चयणे ६० त-जोइसियाण चेव वेमाणियाण चेव ३ दोण्ह गम्भवक ती ५० त० मणुस्साण चेव
||७७॥
JainEducation Internet
For Private & Personal use only