________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
119011
Jain Education Int
630
पश्यत्यवधिदर्शनेन 'समवहतेन' वैक्रियसमुद्घातगतेनात्मना - स्वभावेन, समुद्घातान्तरगतेन वा असमवहतेन त्वन्यथेति एतदेव व्याख्याति - 'आहोही' त्यादि यत्यकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात् परमावत्रेर्वा अयोधवधिर्यस्य सोऽत्रोऽवधिरात्मा-नियतक्षेत्र विषयावधिज्ञानी स कदाचित् समवहतेन कदाचिदन्यथेति समवहता समवहतेनेति 'एव 'मित्यादि, 'एव' मिति यथाऽघोलोकः समवहतासमवहतप्रकाराभ्यामवधेविषयतयोक्त एवं तिर्यग्रलोकादयोऽपीति, सुगमानि च तियँग्लोकोर्ध्वलोककेवललोकसूत्राणि, नवरं केवलः – परिपूर्णः स चासौ स्वकार्यसामर्थ्यात् कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्पः समयभाषया परिपूर्णः तं 'लोकं ' चतुद्दशरज्ज्वात्मकमिति । वैक्रियसमुद्घातानन्तरं वैकियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याधोलोकादिज्ञाने प्रकारद्वयमाह - 'दोही 'त्यादि सूत्रचतुष्टयं कण्ठयम्, नवरं 'विउविएणं' ति कृतवैक्रियशरीरेणेति । ज्ञानाधिकार एवेदमपरमाह‘दोही’त्यादिपञ्चसूत्री, द्वाभ्यां 'स्थानाभ्यां' प्रकाराभ्यां 'देसेण वित्ति देशेन च शृणोत्येकेन श्रोत्रेणैकश्रोत्रापघाते सति, सर्वेण वाऽनुपहतश्रोगेन्द्रियो, यो वा सम्भिन्नश्रोतोऽभिधानलब्धियुक्तः स सर्वैरिन्द्रियैः शृणोतीति सर्वेणेति व्यपदिश्यते, 'एव' मिति यथा शब्दान् देशसवीभ्यामेवं रूपादीनपि, नवरं जिहादेशस्य प्रसुप्त्यादिनोपघाताद् देशेनास्वादयतीत्यवसेयमिति । शब्दश्रवणादयो जीवपरिणामा उक्ताः, तत्प्रस्तावात् तत्परिणामान्तराण्याह- 'दोही 'त्यादि, नव मूत्राणि सुगमानि, नवरम्, अवभासते - द्योतते देशेन खद्योतवत्, सर्वतः प्रदीपवत्, अथवा अवभासते - जानाति स च देशतः फडकावधिज्ञानी सर्वतोऽभ्यन्तरावधिरिति १, 'एव'मिति देशसवीभ्यां प्रभासते - प्रकर्षेण द्योतते २ विकरोति देशेन हस्तादेवै क्रियकरणेन, सर्वेण सव्र्व्वस्यैव
For Private & Personal Use Only
सू०८० ।
॥७०॥
www.jainelibrary.org