SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सु०८०। श्रीस्थामाङ्ग सूत्रदीपिद्वा वृत्तिः । ७१॥ कायस्येति ३, परियारेह'त्ति मथुन सेवते देशेन मनोयोगादीनामन्यतमेन सर्वेण योगत्रयेणापि ४, भाषां भाषते देशेन जिहाग्रादिना, सर्वेण मस्तकताल्वादिस्थानः ५, आहारयति देशेन मुखमात्रेण सर्वेण ओजआहारापेक्षया ६, आहारमेव परिणमयति-परिणाम नयति खलरसविभागेनेति भक्ताशयदेशस्य प्लीहादिना रुद्धत्वाद् देशतः अन्यथा तु सर्वतः ७, वेदयति-अनुभवति, देशेन हस्तादिना अवयवेन सर्वेण सर्वावयवैराहारसत्कान् परिणमितपुद्गलान् इष्टानिष्टपरिणामतः ८, निर्जरयति-त्यजत्याहरितान् परिणामितान् वेदितानाहारपुद्गलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदवदिति ९ अथवैतानि चतुर्दशापि सूत्राणि विवक्षितवस्त्वपेक्षया नेयानि, तत्र देशसर्वयोजना यथा 'देशेनापी'ति देशतोऽपि शृणोति विवक्षितशब्दानां मध्ये कांश्चिच्छ्रणोतीति, 'सर्वेणापी ति | सर्वतश्च सामस्त्येन, सर्वाने वेत्यर्थः, एवं रूपादीनपि, तथा विवक्षितस्य देशं सर्व वा विवक्षितमत्रभासयति, एवं | प्रभासयति, एवं विकुर्वणीयं विकुरुते, परिचारणीयं स्त्रीशरीरादि परिचारयति, भाषणीयापेक्षया देशतो भाषां भाषते, सर्वतो वेति अभ्यवहार्यमाहारयति आहृतं परिणामयति, वेद्यं कर्म वेदयति देशतः सर्वतो वा, एवं निर्जरयत्यपि । देशसर्वाभ्यां सामान्यतः श्रवणायुक्तं विशेषविवक्षायां प्रधानत्वाद् देवानां तानाश्रित्य तदाह-'दोही त्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया सूत्रचतुर्दशकं ज्ञेयं देशतः सर्वतो वा । एतेऽनन्तरोक्ता भावाः शरीर एव सति सम्भवन्तीति देवानां च प्रधानत्वात् तेषामेव व्यक्तितः शरीरनिरूपणायाह-'मरुए'त्यादि सूत्राष्टकं कण्ठयं, नवरं, मरुतो देवा लोकान्तिकदेवविशेषाः, यत उक्तम्- "सारस्वता १ दित्य २ वहून्य ३ रुण ४ गर्दतोय ५-तुषिताऽ ६ व्यावाध ७ मरुतो ८ ऽरिष्टा ९ चेति" (तत्त्वा० अ० ४ सू० २६) ते चैकशरीरिणो विग्रहे कार्मणशरीर ॥७२॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy