________________
सू०७९ ।
भीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
I૬૮
चतुर्विशतिदण्डके पञ्चेन्द्रिया अमुरादयो भवन्ति ते सर्वेऽपि संझ्यसंबितया वाच्याः, दण्डकावसानमाह-जाब वेमाणिय'त्ति मानिकपर्यवसाना अप्येवं वाच्या इति, कचिद् 'जावाणमंतर'त्ति पाठस्तत्रायमों-येऽसंज्ञिभ्यो नारकादितयोत्पद्यन्ते तेऽसंझिन एवोच्यन्ते, असंझिनश्च नारकादिषु व्यन्तरावसानेषत्पद्यन्ते न ज्योतिष्कवैमानिकेष्विति तेषामसंज्ञित्वाभावादिहाग्रहणमिति ९, भाषादण्डके भाषका--भाषापर्याप्त्युदये, अभाषकास्तदपर्याप्तावस्थायामिति, एकेन्द्रियाणां भाषापर्याप्तिर्नास्तीत्यत आह-'एव'मित्यादि १०, सम्यग्दृष्टिदण्डके सम्यक्त्वमेकेन्द्रियाणां नास्ति, द्वीन्द्रियादीनां तु सास्वादनं स्यादपीत्युक्तम्-'एगिदियवज्जा सम्वेत्ति' ११, संसारदण्ड के परीत्तसंसारकाः-सङ्क्षिप्तभवा इतरे वितरे १२, स्थितिदण्डके कालः कृष्णोऽपि स्यात् , समय आचारोऽपि स्यादतः कालश्चासौ समयश्चेति कालसमयः सङ्ख्येयो वर्षप्रमाणतः स यस्यां सा सख्येयकालसमया सा स्थितिः-अवस्थान येषां ते सङ्ख्येयकालसमयस्थितिकाः, दशवर्षसहस्त्रादिस्थितय इत्यर्थः, इतरे तु पल्योपमासङ्ख्येयभागादिस्थितयः, 'एव'मिति नारकवद् द्विविधस्थितिका दण्डकोक्ताः किं सर्वेऽपि ? नेत्याह--पञ्चेन्द्रिया असुरादयः, किमुक्तं भवति ?-एकेन्द्रियविकलेन्द्रियवर्जाः, एतेषां हि द्वाविंशतिवर्षसहस्रादिका सङ्ख्यातैव स्थितिः, पञ्चेन्द्रिया अपि किं सर्वे नेत्याह, यावद् व्यन्तराः व्यन्तरान्ताः, एते हि उभयस्वभावा भवन्ति, ज्योतिष्कवैमानिकास्तु असङ्ख्यातकालस्थितय एवेति १३, बोधिदण्डके बोधिः-जिनधर्म(प्राप्तिः) सा सुलभा येषां ते सुलभबोधिकाः, एवमितरेऽपि १४, पाक्षिकदण्डके शुक्लो विशुद्धत्वात् पक्ष:-अभ्युपगमः शुक्ल पक्षस्तेन चरन्तीति शुक्ल पाक्षिकाः, शुक्लत्वं च क्रियावादित्वेनेति, आह च-'किरियावाई भव्वे णो अभब्वे सुक्कपक्खिए नो किण्डपक्खिए'त्ति
॥६८॥
Jain Education
For Private & Personal use only
www.jainelibrary.org