________________
सू०७७1
श्रीस्थानाङ्ग
सूत्रदीपिकावृत्तिः ।
॥६४||
काश्वारोपपन्नका-ज्योतिष्काः, न च पादपोपगमनादेज्योतिष्कत्वं न भवति परिणामविशेषादिति, तेऽपि च | द्विधैव, तथाहि-चारे-ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिकाः-समयक्षेत्रबहिर्वतिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिकाः, समयक्षेत्रवर्तिन इत्यर्थः, गतिरतयश्चाऽसततगतयोऽपि भवन्तीत्यत आह-गतिः-गमन 'सम्' इति-सन्ततमापनकाः प्राप्ता गतिसमापनकाः, अनुपरतगतय इत्यर्थः, तेषां देवानां द्विविधानां पुनर्द्विविधानां सदा--नित्यं समितं-सन्ततं यत्पापं कर्म ज्ञानावरणादि, सततबन्धकत्वात् जीवानां क्रियते, बध्यते, कर्मकतृप्रयोगोऽयं भवति सम्पद्यते इत्यर्थः-ते देवाः, तस्य-कर्मणः अबाधाकालातिक्रमे सति 'तत्थगया वित्ति अपिरेवकारार्थस्तस्य चैवं प्रयोगः-तत्रैव देवभव एव कल्पातीतानां क्षेत्रान्तरादिगमनासम्भवादिह तत्रान्यत्रशब्दाभ्यां भव एव विवक्षितः, न क्षेत्रशयनादीति, गताः-वर्तमाना 'एके' केचन देवा वेदनामनुभवन्ति 'अन्नत्थगया वित्ति देवभवादन्यत्रैव भवान्तरे गता उत्पन्ना वेदनामनुभवन्ति, केचित्तभयत्रापि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति, एतच्च विकल्पद्वयं सूत्रे नाश्रितं, द्वित्वाधिकारादिति ॥ सूत्रोक्तमेव विकल्पद्वयं सर्वजीवेषु चतुर्विशतिदण्डकेन निरूपयनाह-'णेरईयाण' मित्यादि प्रायः सुगमम् , नवरं, "तत्थगया वि अनत्थया वि" एवमभिलापेन दण्डको नेयो यावत्पञ्चन्द्रियतिर्यश्चोऽत एवाह — जावे'त्यादि, मनुष्येषु पुनरभिलापविशेषो दृश्यः, यथा 'इहगया वि एगइया' इति, सूत्रकारो हि मनुष्योऽतस्तत्रेत्येवंभूतं परोक्षाऽनासन्न निर्देशं विाच्य मनुष्यसूत्रो इहेत्येवं निर्दिशति स्म, मनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन इदंशब्दस्य विषयत्वादिति, अत एवाह-'मणुस्सवज्जा सेसा एक्कगमति शेषाः व्यन्तरज्योतिष्कवैमानिका एकगमा:-तुल्याभिलापाः, ननु प्रथमसूत्र
॥६॥
JainEducation inte!
For Private & Personal use only
www.jainelibrary.org