________________
सू०७५
O
श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः ।
11
॥६
॥
दिधर्मतयाऽनुकम्पितत्वात् शरीरकं, ते च द्वे प्रज्ञप्ते जिनः, अभ्यन्तमध्ये भवमाभ्यन्तरं, आभ्यन्तरत्वं च तस्य जीवप्रदेशैः सह क्षीरनीरन्यायेन लोलीभवनात् , भवान्तरगतावपि च जीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तःप्रविष्टपुरुषवदनतिशयिनामप्रत्यक्षत्वाच्चेति, तथा बहिर्भवं बाह्यं, बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेभवान्तराननुयायित्वान्निरतिशयिनामपि प्रायः प्रत्यक्षत्वाच्चेति, अगाभ्यन्तरं 'कम्मए'त्ति कार्मणशरीरनामकर्मोदयनिर्वृत्तमशेषकर्मणां प्ररोह भूमिराधारभूतं, संसार्यात्मनां गत्यन्तरसङ्क्रमणे साधकतमं तत्कार्मणवर्गणास्वरूपं, कर्मैव कर्मकमिति, कर्मकग्रहणे च तैजसमपि गृहीतं द्रष्टव्यं, तयोरव्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति, 'एवं देवाणं भागियति अयमर्थः, यथा नैरयिकाणां शरीरद्वयं भणितमेवं देवानाममुरादीनां वैमानिकान्तानां भणितव्यम् , कार्मणवैक्रिययोरेव तेषां भावात् , चतुर्विंशतिदण्डकस्य विवक्षेति । 'पुढवी 'त्यादि पृथिव्यादीनां तु बाह्यमौदारिकशरीरनामकर्मोदयादुदारपुद्गलनिवृत्तमौदारिकं, केवलमेकेन्द्रियाणामस्थ्यादिविरहितं, वायूनां यद् वैक्रिय तन्न विवक्षितं, प्रायिकत्वात् तस्येति, 'बेइंदियाण'मित्यादि, अस्थिमांसशोणितैर्बद्धं-नद्धं यत्तत्तथा, द्वीन्द्रीयादीनामौदारिकत्वेऽपि शरीरस्यायं विशेषः । 'पंचेंदिए'त्यादि पञ्चेन्द्रियतिर्यग्मनुष्याणां पुनरयं विशेषो यदस्थिमांसशोणितस्नायुशिराबद्धमिति, अस्थ्यादयस्तु प्रतीता इति ॥ प्रकारान्तरेण चतुविशतिदण्डकेन शरीरप्ररूपणामाह-विग्गहे'त्यादि विग्रहगतिर्वक्रगतियदा विश्रेणिव्यवस्थितमुत्पत्तिस्थान गन्तव्यं भवति तदा या स्यात् तां समापना विग्रहमतिसमापन्नास्तेषां द्वे शरीरे, इह तैजसकार्मणयोर्भदेन विवक्षेति, एवं दण्डकः ॥ शरीराधिकारात् शरीरोत्पत्ति दण्डकेन निरूपयन्नाह-'नेरइयाण मित्यादि कण्ठयं, किन्तु रागद्वेषजनितकर्मणा शरीरोत्पत्तिः, सा रागद्वेषाभ्या
II૬થી
Jain Education in
For Private & Personal use only
INoww.iainelibrary.org