________________
सू०७४
प्रास्थानाङ्ग
सूत्र दीपिका ।
वृत्तिः ।
॥ ५८ ॥
आरुहणे ओरोहणे, णिसियणगोणाउणं च गाउम्हा । भूमाहारच्छेदे, उवक्कमेणेव परिणामो ॥३॥ 'अणाहारेणं' ति स्वदेशजाहाराभावेनेति 'भंडसंकती'त्ति भाजनाद भाजनान्तरसंक्रान्त्या, खजूरादयोऽनाचरिताअभयादयस्तु आचरिता इति । परिणामान्तरेण पृथिवीकायिका एव ते, केवलमचेतना इति, कथमन्यथाऽचेतनपृथिवीकायपिण्डप्रयोजनाभिधानमिदं स्यात, यथा-घट्टगडगलगलेवो, एमाइ पओयणं बहुहत्ति । "एवमि"त्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि ॥ द्रवन्ति-गच्छन्ति विचित्रपर्यायानिति द्रव्याणि-जीवपुदगलरूपाणि, तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि-विवक्षितपरिणामवन्त्येव, अपरिणातानीति द्रव्यसूत्रं षष्ठम् । 'दुविहे'त्यादि षट्स्त्री, गतिर्गमनं तां समापन्नाः प्राप्तास्तद्वन्तो गतिसमापन्नाः, ये हि पृथिवीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थान ब्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः, द्रव्यसूत्रे गतिगमनमात्रमेव, शेषं तथैवेति । 'दुविहा पुढवी'त्यादि षट्सूत्री, 'अनन्तरं' सम्प्रत्येव समये क्वचिदाकाशदेशे अवगाढाः आश्रितास्त एवानन्तरावगाढाः । येषां तु द्वयादयः समया अवगाढानां ते परम्परावगाढाः । अथवा विवक्षितं क्षेत्र द्रव्यं वाऽपेक्ष्यानन्तरमव्यवधानेनावगाढा इतरे तु परम्परावगाढा इति ॥ अनन्तरं द्रव्यस्वरूपमुक्तमधुना द्रव्याधिकारादेव द्रव्यविशेषयोः कालाकाशयोर्द्विसूच्या प्ररूपणामाह--
दुविहे काले ५० त०-ओसप्पिणीकाले चेव उस्सप्पि गोकाले चेत्र, दुविहे आगासे ५० त०-लोगागासे चेव अलोगागासे चेव (सू. ७४)
'दुविहे 'त्यादि कल्यते--सङ्ख्यायतेऽसावनेन वा कलनं वा कलासमूहो वेति काल:---वर्तनापरापरत्वा
॥५८॥
Jan Education
For Private & Personal use only
www.jainelibrary.org