________________
सु०७३
एवं जाव वणस्सकाइया २१, दुविहा दवा पं० त०-गतिसमावन्नगा चेय अगतिसमावन्नगा चेव २२, दुविहा पुढविश्रीस्थानाङ्गा
काइया पंत-अण तरोगाढा चेव पर परोगाढा चेव २३, जाव दव्वा०२८ (सू०७३) सूत्रदीपिका
तत्र पृथिव्येव कायो येषां ते पृथिवीकायिनः समासान्तविधौ एव स्वार्थिककप्रत्ययविधानात् पृथिवीकायिकाः, वृत्तिः ।
पृथिव्येव वा कायः-शरीरं सोऽस्ति येषां ते पृथिवीकायिकास्ते सूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयात् बादरा ये पृथिवीनगादिष्वेवेति । नैपामापेक्षिकं सूक्ष्मबादरत्वमिति 'एवमिति'
पृथिवीसूत्रवदप्तेजोवायूनां सूत्राणि वाच्यानि यावद्वनस्पतिसूत्रम् , अत एवाह-'दुधिहे'त्यादि पर्याप्तनामकर्मोदय!! वर्तिनः पर्याप्ताः, ये हि चतस्रः पर्याप्तीः पूरयन्ति, अपर्याप्तनामकर्मोदयाद् अपर्याप्तका ये स्वपर्याप्तीनं पूरयन्तीति,
इह पर्याप्ति म शक्तिः सामर्थ्य विशेष इतियावत्, सा च पुदगलद्रव्योपचयादुत्पद्यते, पइभेदा चेयं, तद्यथा"आहार १ सरीर २ इंदिय ३ पज्जती, आणपाण ४ भास ५ मणे ६ । चत्तारि पंच छप्पिय, एगिदियविगलसन्नीण ॥१॥ तत्रैकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च संज्ञिनां पड़ इति ॥
'दुविहा पुढवी'त्यादि षट्रसूत्री, परिणताः--स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिताः अचित्तीभूता इत्यर्थः तत्र द्रव्यतः क्षेत्रादिना मिश्रेण द्रव्येण, कालतः पौरुष्यादिना कालेन, भावतो वर्णगन्धरसस्पर्शान्यथात्वेन परिणताः, क्षेत्रतस्तु
जोयणसयं तु गंता, अणाहारेणं तु भंडसंकंती । वायागणिधमेग, विद्धत्थं होइ लोणाइ ॥१॥ हरियालमणसिलपिप्पली य, खज्जूरमुद्दिया अभया । आइन्नमणाइन्ना, ते वि हु एमेव नायव्वा ॥२॥
॥ ५७ ॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org