________________
सू०७१
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥५३॥
परम्परसिद्धो यस्य द्वयादयः समयाः सिद्धस्य सोऽप्येकोऽनेको वेति, तेषां यत् केवलज्ञानं तत्तथा व्यपदिश्यत इति । 'ओहिनाणे'इत्यादि, 'भवपच्चइए'त्ति क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्राधान्येन भव एव प्रत्ययो यस्य तद् भवप्रत्ययमिति व्यपदिश्यत इति, इदमेव भाष्यकारेण साक्षेपपरिहारमुक्तं, तथा तदावरणस्य क्षयोपशमे भबं क्षायोपमिकमिति । 'दोण्हं भवपच्चइए'त्यादि सुगमम् । 'मणपज्जवे'त्यादि 'उज्जमह'त्ति ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः-घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धनं मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला-विशेषग्राहिणी मतिविपुलमतिः-घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्यायथ्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति, 'आभिणियोहिए' इत्यादि, श्रुतं कर्मतापन्नं निश्रितम्आश्रितं श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितं, यत् पूर्वमेव श्रुतकृतोपकारस्येदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तदवग्रहादिलक्षणं श्रुतनिश्रितमिति, यत् पुनः पूर्व तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद् वा श्रोत्रादिप्रभयं तदश्रुतनिश्रितमिति, 'सुए'त्यादि, 'अत्थोग्गहे'त्ति अर्यते-अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थः, तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं-प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकं ज्ञानं दर्शनमिति यदुच्यत इत्यर्थः, स च नैश्चयिको यः स सामयिको यस्तु व्यावहारिकः शब्दोऽयमित्याद्युल्लेखवान् स आन्तमौहर्तिक इति, अयं चेन्द्रियमनःसम्बन्धात् पोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं-तचोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण शब्दादित्वपरिणतद्रव्याणां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति, 'सुयणाणे'त्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानि तेषु प्रविष्टं
॥५३॥
Jain Educaton in
t onal
For Private & Personal use only
www.jainelibrary.org