________________
सू ७१
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥५२॥
गहे चेव वजणोग्गहे चेव १९, असुयनिस्सितेऽवि एमेव २०, सुयनाणे दुविहे पंत-अंगपविटूठे चेव अंगबाहिरे चेव २१, अंगबाहिरे दुविहे पं० त०-आवस्सए चेव आवस्सयवइरित्ते चेव २२, आवस्सयवतिरित्ते दुविहे ५० त०. कालिए चेव उकालिए चेव २३ ॥ (सू०७१) ___ नवरं 'ज्ञान' विशेषावबोधः, अनाति-भुङ्क्ते अश्नुते वा-व्याप्नोति ज्ञानेनार्थानित्यक्षः-आत्मा तं प्रति यद वर्तते इन्द्रियमनोनिरपेक्षत्वेन तत् प्रत्यक्षम्-अव्यवहितत्वेनार्थसाक्षात्करणदक्षमिति, आह च-"अक्खो जीवो अत्थव्यावणभोयणगुणण्णिओ जेण । तं पइ वट्टइ नाणं, जे पच्चक्खं तमिह तिविहं ॥१॥" परेभ्यः-अक्षापेक्षया पुदगलमयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य-जीवस्य यत्तत्परोक्षं निरुक्तिवशादिति, आह च-"अक्खस्स पोग्ग स्कया, जं दबिंदियमणा परा तेणं । तेहिंतो जं नाणं, परोक्खमिह तमणुमाणं व ॥१॥"त्ति, अथवा परैरुक्षा-सम्बन्धनं जन्यजनकभावलक्षणमस्येति परोक्षम्-इन्द्रियमनोव्यवधानेनात्मनोऽर्थप्रत्यायव.मसाक्षात्कारीत्यर्थः । 'पच्चक्खे'त्यादि, केवलम्-एकं ज्ञानं केवलज्ञानं तदन्यन्नोकेवलज्ञानम्-अवधिमनःपर्यायलक्षणमिति । 'केवले'त्यादि, 'भवत्थकेवल. नाणे चेव'त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, "भवत्थे'त्यादि, सह योगैः-कायव्यापारादिभियः स सयोगी इन्समासान्तत्वात् स चासौ भवस्थश्च तस्य केवलज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगी-शैलेशीकरणव्यवस्थितः, शेषं तथैव, 'सयोगी'त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो-द्वयादिसमयो यस्य स तथा, शेषं तथैव, 'एव'मिति सयोगिसूत्रवत् प्रथमाप्रथमचरमाचरमविशेषणयुक्तमयोगिसूत्रमपि वाच्यमिति, 'सिद्धे'त्यादि, अनन्तरसिद्धो यः सम्प्रति समये सिद्धः, स चैकोऽनेको वा, तथा
॥५२॥
Jain Education
!
For Privals & Fersonal use only
thiww.jainelibrary.org