________________
श्रीस्थाना
सूत्रदीपिका
वृत्तिः ।
॥५०॥
शमिकसम्यक्त्वलाभ इति, आह च--"उवसामगसेढिगयस्स, होइ उवसामिअं तु सम्मत्तं । जो वा अकय-तिपुंजो, अखवियमिच्छो लहइ सम्मं ॥१॥ खीणमि उदिण्णमी, अणुदिज्जते य सेसमिच्छत्ते । अंतोमुहुत्तकालं, उवसमसम्मं लहइ जीवो ॥३॥"त्ति, अन्तर्मुहर्त्तमात्रकालत्वादेवास्य प्रतिपातित्वं, यच्चानन्तानुवन्ध्युदये औपशमिकसम्यकत्वात् प्रतिपततः सास्वादनमुच्यते तदौपशमिकमेव, तदपि च प्रतिपात्येव, जघन्यतः समयमात्रत्वादुत्कृष्टतस्तु षडावलिकामानत्वादस्येति, तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्ण तदुपक्षीणं यच्चानुदीर्ण तदुपशान्तम्, उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च, तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते, नन्वौपशमिकेऽपि क्षयश्चोपशमश्च तथेहापीति कोऽनयोविशेषः ? उच्यते, अयमेव हि विशेषः-यदिह वेद्यते दलिक | न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयते च, औपशमिके तूदयविष्कम्भणमात्रमेव, आह च-"मिच्छत्तं जमुदिण्णं, तं खीणं अणुदियं च उवसंतं । मीसीभावपरिणयं, वेइज्जतं खओवसमं ॥१॥"ति, एतदपि जघन्यतोऽन्तर्मुहूर्तस्थितिकत्वादुत्कर्पतः षट्पष्टिसागरोपमस्थितिकत्वाच्च प्रतिपातीति, यदपि च क्षपकस्य सम्यग्दर्शनदलिकचरमपुद्गलानुभवनरूपं वेदकमित्युच्यते तदपि क्षायोपशमिकभेदत्वात् प्रतिपातित्वात् प्रतिपात्येवेति, तथा मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वमोहनीयक्षयात् क्षायिकमिति, आह च---"खीणे देसणमोहे, तिविहंमि वि भवनियाणभूयंमि । निप्पच्चवायमउलं, सम्मत्तं खाइयं होइ ॥१॥" इदं तु क्षायिकत्वादेवाप्रतिपाति, अत एव सिद्धत्वेऽप्यनुवर्तत इति । 'मिच्छादसणे 'त्यादि, अभिग्रहः-कुमतपरिग्रहः स यत्रास्ति तदाभिग्रहिक तद्विपरीतम्-अनभिग्रहिकमिति । 'अभिग्गहिए'इत्यादि, अभिग्रहिकमिथ्यादर्शनं सपर्यवसितं---सपर्यवसानं सम्यक्त्व
For Privat & Personal use only
॥५०॥
Jan Education intentional
www.jainelibrary.org