________________
श्रीस्थाना सूत्र
दीपिका
वृत्तिः ।
॥४८॥
तराए चेव, तत्थ ण जे से मोहणिज्जस्स कम्मरस उदपण से ण दुहवेयतराए चेव दुहविमोयतराए चेव । (सू०६८) दो दंडा पंत-अट्ठाद डे चेव अणट्ठाद डे चेव, नेरइयाण दो दंडा पं० त० अट्ठाद डे य अणद्वादडे य, एवं चउवीसा दंडओ जाय वेमाणियाण । (सू०६९) समा-कालविशेषः, शेषं सुगमम् ॥ केवलज्ञानं मोहनीयोन्मादक्षय एव भवत्यतः सामान्येनोन्मादं निरूपयन्नाइ'दविहे उम्माए' इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेशो---देवताधिष्ठितत्वं ततो यः स यक्षावेश एवेत्येको, मोहनीयस्य-दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, तत्रेति तयोर्मध्ये योऽसौ यक्षावेशेन भवति स मुखवेद्यतरक एव---मोहननितग्रहापेक्षयाऽकृच्छ्रानुभवनीयतर एव, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति, अतिशयेन सुखं विमोच्यते--त्याज्यते यः स सुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति, अथवा अत्यन्तं सुखापेयः--सुखापनेयः सुखापनेयतरः, तथा अत्यन्तं सुखेनैव विमुञ्चति यो देहिनं स | सुखविमोचतरक इति, मोहजस्तु तद्विपरीतः, ऐकान्तिकात्यन्तिकभ्रमस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनानन्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्राधसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एव उक्तं-'दुहवेयतराए चेव दुहविमोयतराए चेव' त्ति ॥ उन्मादात् प्राणी प्राणातिपातादिरूपे दण्डे प्रवर्तते दण्डभाजनं वा भवतीति तं (दण्डं) निरूपयन्नाह-दो दंडे 'त्यादि, दण्ड:-प्राणातिपातादिः, स चार्थाय-इन्द्रियादिप्रयोजनाय यः सोऽर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति । उक्तरूपमेव दण्डं सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह-'णेरइयाण 'मित्यादि, 'एव 'मिति नारकवदर्थदण्डानर्थदण्डाभिलापेन चतुर्विशतिदण्डको ज्ञेयो, नवरंनारकस्य स्वशरीररक्षार्थ परस्योपहननमर्थदण्डः प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनां त्वनाभोगेनाप्याहारग्रहणे जीव
॥४८॥
Jain Educaton n
ational
For Private & Personal use only
www.jainelibrary.org