________________
श्रीस्थानाङ्ग सूत्र
दीपिका वृत्तिः ।
118911
Jain Education Inter
200KOOOOOO
पर्यवः - परिच्छेदः स एव ज्ञानमथवा मनसः पर्यवाः पर्यायाः पर्यया वा विशेषावस्था मनः पर्यवादयस्तेषां तेषु वा ज्ञानं मनः पर्यवज्ञानमेवमितरत्रापि, समयक्षेत्रगत संज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति १०, केवलनाणं 'ति केवलम् - असहायं मत्यादिनिरपेक्षत्वादकलङ्कं वा आवरणमलाभावात् सकलं वा तत् प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणं वा अनन्यसदृशत्वादनन्तं वा ज्ञेयानन्तत्वात् तच्च तज्ज्ञानं च केवलज्ञानमिति ११ ॥ कथं पुनर्द्धर्मादीनि विद्याचरणस्वरूपाणि प्राप्नोतीत्याह - 'दो ठाणाइ' मित्याद्यकादशसूत्री
दो ठाणाई परियाइत्ता आया केवलिपन्नत्त धम्मं लभेज्ज सवणयार त०-आर मे चैव परिग्गहे चेव, एवं जाव केवलनाणं उप्पाडेज्जा (सू० ६५) । दोहि ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाप तं०- सोच्च च्चेव अभिसमेच्च च्चेव जाव केवलनाणं उप्पाडेजा (सु० ६६) ।
धर्मादिलाभ एव पुनः कारणान्तरद्वयमाह 'दो ठाणे 'त्यादि एकादशसूत्री सुगमा 'दोही 'त्यादि सुगमं, केवलं श्रवणतया श्रवणभावेन, 'सोच्च च्चेव' त्ति ह्रस्वत्वादि प्राकृतत्वादेव, श्रुत्वा - आकर्ण्य तस्यैवोपादेयतामिति गम्यते, 'अभिसमेत्य'-- समधिगम्य तामेवावबुद्धयेत्यर्थः, उक्तं च- "सद्धर्मश्रवणादेव, नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥ १ ॥ धर्मोपादेयतां ज्ञात्वा सञ्जातेच्छोऽत्र भावतः । दृढं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्त्तते ॥२॥” इति 'एवं बोहि बुज्झेज्जे 'त्यादि यावत् 'केवलनाणं उप्पडेज्जन्ति' केवलज्ञानं च कालविशेषे भवतीति तमाह
दो समाओ पन्नत्ताओ त ० -ओसप्पिणी समा चेव उस्सप्पिणी सभा चेव (सू० ६७) दुविहे उम्मार पं० त०अक्खावेसे चेव मोहणिज्जस्स चैव कम्मस्स उदपण, तत्थ णं जे से जक्खावेसे से णं सुहवेयतराप चैव सुहविमोय
For Private & Personal Use Only
सु०६५६६-६७
॥४७॥
www.jainelibrary.org