________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥४६॥
Jain Education Inte
SENOROXOOOORSEX
चैकवचनप्रक्रमेऽपि व्यक्त्यपेक्ष बहुवचनम्, अवधारणसमुच्चयौ स्वबुद्धया ज्ञेयाविति १, केवलां शुद्धां बोधिदर्शनं सम्यक्त्वमित्यर्थं बुध्येत - अनुभवेत्, अथवा केवलया वोध्येति विभक्तिपरिणामात् बोध्यं जीवादीति गम्यते, बुध्येत - श्रीति २, मुण्डो द्रव्यतः शिरोलोचेन भावतः कषायाद्यपनयनेन भूत्वा - संपद्य अगाराद्-गृहाद् निष्क्रम्येति गम्यते, केवलामित्यस्येह सम्बन्धात् केवलां- परिपूर्ण शुद्धां वा अनगारितां प्रवज्यां प्रव्रजेदिति ३, 'एव 'मिति यथा प्राक तथोत्तरवाक्येष्वपि ' दो ठाणाई' इत्यादिवाक्यं पठनीयमित्यर्थः ब्रह्मचर्येण-अनविरमणेन वासो - रात्रौ स्वापः तत्रैव वा वासो— निवासो ब्रह्मचर्यवासः तमावसेत् कुर्यादिति ४, संयमेनपृथिव्यादिरक्षणलक्षणेन संयमयेदात्मानमिति, संवरेण-आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वाराणीति गम्यते ५, 'केवलं ' परिपूर्ण सर्वस्वविषयग्राहकम् 'आभिणित्रोहियनाणं' ति अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयस्वभावत्वाद् बोधो वेदनमभिनिबोधः स एवाभिनिवोधिकं तच्च तज्ज्ञानं चेत्याभिनिवोधिकज्ञानम् - इन्द्रियानिन्द्रियनिमित्तमोघः सर्व्वद्रव्यासर्व्वपर्यायविषयं 'उप्पाडेज्ज चि उत्पादयेदिति ६, तथा 'एव 'मित्यनेनोत्तरपदेषु 'नोकेवलं उप्पाडेज्ज 'त्ति द्रष्टव्यम् ' सुधनाणं 'ति श्रूयते तदिति श्रुतं शब्द एव स च भावश्रुतकारणत्वात् ज्ञानं श्रुतज्ञानं श्रुतग्रन्थानुसारि ओघतः सर्वद्रव्यासर्वपर्यायविषयमक्षरश्रुतादिभेदमिति ७, तथा ' ओहिनांणं 'ि अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयते इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेत्यवधिः - अवधिज्ञानावरणक्षयोपशम एव तदुपयोग हेतुत्वादिति, अवधानं वा अवधिर्विषयपरिच्छेदनमिति, अवधिश्वासौ ज्ञानं चेत्यवधि - ज्ञानम् - इन्द्रियमनोनिरपेक्षमात्मनो रूपिद्रव्यसाक्षात्करणमिति ८, तथा 'मणपज्जवनाणं 'ति मनसि मनसो वा
For Private & Personal Use Only
सु० ६४
॥४६॥
www.jainelibrary.org