SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सु०६१ शीस्थाना सुत्रदीपिका वृत्तिः । ॥४३॥ अद्ध गरह्इ, हस्सं वेगे अद्ध गरहा । (सू० ६१) 'दुविहा गरहे'त्यादि विधान--विधा द्वे विधे-भेदौ यस्याः सा द्विविधा, गर्हणं गर्हा-दुश्चरितं प्रति कुत्सा, सा च स्वपरविषयत्वेन द्विविधा, सापि मिथ्यादृष्टेरनुपयुक्तस्य सम्यग्दृष्टेश्च द्रव्यगर्हा, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्याप्रधानार्थत्वाद्, उक्तं च-"अप्पाहन्ने वि इहं, कत्थइ दिह्रो हु दव्वसदो त्ति । अंगारमद्दओ जह, दव्यायरिओ सयाऽभन्यो ॥१॥ ति" सम्यग्दृष्टेस्तूपयुक्तस्य भावगर्हा चतुर्दा, गर्हणीयभेदाद् बहुप्रकारावा, सा चेह करणापेक्षया द्विविधोक्ता, तथा चाह--'मण' मनसा-चेतसा वाशब्दो विकल्पार्थाऽवधारणार्थों वा, ततो मनसैव न वाचेत्यर्थः। कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिताभिष्टुतस्तद्वचनोपलब्धसामन्तपरिभूतस्वतनयराजवात्तों मनसा समारब्धपुत्रपरिभवकारिसामन्तसङ्ग्रामो वैकल्पिकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंसृष्टलुश्चितमस्तकः ततः समुपजातपश्चात्तापाऽनलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिर्गहते-जुगुप्सते गयमिति गम्यते, तथा वचसा-वाचा अथवा वचसैव न मनसा भावतो दुश्चरिताविरक्तत्वाज्जनरजनार्थ गर्हाप्रवृत्ताङ्गारमईकादिप्रायसाधुवत् एकोऽन्यो गर्हत इति, अथवा 'मणसाऽवेगे'त्ति इह अपिः, स च सम्मावने, तेन सम्भाव्यते अयमर्थ:-अपि मनसैको गर्हते अन्यो वचसेति, अथवा मनसाऽपि न केवलं वचसा एको गई ते, तथा वचसाऽपि न केवलं मनसा एक इति स एव गर्हते, उभयथाऽप्येक एव गर्हत इति भावः, अन्यथा गर्हाद्वैविध्यमाह-'अहवे 'त्यादि, अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षो, द्विविधा गर्दा प्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपि दीर्घा-बृहती अद्धां-कालं यावदेकः कोऽपि गईते गईणीयमाजन्मापीत्यर्थः, भन्यथा ॥४॥ Jain Education For Private & Personal use only YE www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy