________________
श्रीस्थाना
सू.६०
सुत्र
दीपिका वृत्तिः ।
॥४२॥
द्वेधा-जीवाजीवभेदादिति, तथाहि-जीवमाज्ञापयत आनाययतो वा परेण जीवाज्ञापनी जीवानायनी वा, एवमेवाजीबविषया अजीवाज्ञापनी अजीवानायनी वेति २९। तथा 'वेयारणिय'त्ति जीवमजीवं वा विदारयति-स्फोटयतीति अथवा जीवमजीवं वा असमानभावेषु विक्रीणति सति यद्वैभाविको विचारयति परियच्छावेइ'त्ति भणितं होति, अथवा जीवं पुरुषं वितारयति-प्रतारयति चश्चयतीत्यर्थः, असद्गुणैरेतादृशः तादृशस्त्वमिति, पुरुषादिविप्रतारणबुद्धयेव वाऽजीव भणत्येतादृशमेतदिति यत्सा 'जीववेयारणिआऽजीववेयारणिया वत्ति ३०। एतत्सर्वमतिदेशेनाह-'जहेव नेसत्थियत्ति, अन्यथा वा द्वे 'अणाभोगवत्तिया चैव'त्ति अनाभोगः-अज्ञानं प्रत्ययो-निमित्तं यस्याः सा तथा, 'अणवखवत्तिया चेव'त्ति अनवकाङ्क्षा स्वशरीराधनपेक्षत्वं सैव प्रत्ययो यस्याः साऽनवकाङ्क्षाप्रत्ययेति ३१ । आद्या द्विधा-'अणाउत्तआइयणया चेव'त्ति अनायुक्तः-अनाभोगवाननुपयुक्त इत्यर्थः, तस्याऽऽदानता-वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा 'अणाउत्तपमज्जणया चेव'त्ति अनायुक्तस्यैव पात्रादिविषया प्रमार्जनता अनायुक्तप्रमार्जनता, इह च 'ता' प्रत्ययः स्वार्थिकः प्राकृतत्वेन आदानादीनां भावविवक्षया वेति ३२। द्वितीयापि द्विविधा 'आयसरीरेत्यादि, तत्रात्मशरीरानवकाक्षाप्रत्यया स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकारि| कर्माणि कुर्वतो द्वितीयेति ३३। 'दो किरिये'त्यादि त्रीणि सूत्राणि कण्ठयानि, नवरं प्रेम-रागो मायालोभलक्षणः, द्वेषः क्रोधमानलक्षण इति ३४। यदत्र न व्याख्यातं तत्सुगमत्वादिति ॥ एताश्च क्रियाः प्रायो गर्हणीया इति गर्दामाह
दुविहा गरिहा पं० त०-मणसा बेगे गरहा । वयसा वेगे गरहा । अहवा गरहा दुविहा पं० त०-दोह वेगे
॥४२॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org