________________
im
श्रीस्थानाङ्ग
सु०६०
H
दीपिका वृत्तिः ।
॥४१॥
निपातो-जनमीलकः तस्मिन् भवा सामन्तोपनिपातिकी २२। आधा द्वधा जीवपाडच्चिया चेवत्ति जीवं |Atl प्रतीत्य यः कर्मबन्धः सा तथा, तथा 'अजीव०' अजीवं प्रतीत्य यो रागद्वेषोदभवः तज्जो वा बन्धः सा अजीवप्रातीत्यिकीति २३। द्वितीयापि द्विविधेत्यतिदिशन्नाह- 'एवं सामंतोवणिवाइयावित्ति तथाहि-कस्यापि पण्डो रूपवानस्ति, तं च जनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्यतीति जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीवसामन्तोपनिपातिकीति २४। अन्यथा वा द्वे 'साहत्थियां चेव'त्ति स्वहस्तेन निर्धत्ता स्वाहस्तिकी, तथा 'नेसत्थिया चेव'त्ति निसर्जन-निसृष्टं क्षेपणमित्यर्थः, नत्र भवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्मबन्ध इत्यर्थः, निसर्ग एव वेति २५। तत्र आद्या द्वेधा-'जीवसाहत्थिया चेव' त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा 'अजीवसाहत्थिया चेव'त्ति यच्च स्वहस्तगृहीतेनैवाजीवेन-खड्गादिना जी मारयति सा अजीवस्वाहस्तिकीति, अथवा स्वहस्तेन जीवं ताडयत | एका अजीवं ताडयतोऽन्येति २६। द्वितीयापि जीवाजीवभेदैवेत्यतिदिशन्नाह–'एवं नेसत्थिया चेवत्ति तथाहि |
राजादिसमादेशाद् यदुदकस्य यन्त्रादिभिनिसज्जनं सा जीवनैसृष्टिकीति, यत्तु काण्डादीनां धनुरादिभिः सा अजीवनसृष्टिकीति, अथवा गुर्बादौ जीव-शिष्यं पुत्रं वा निसृजतो-ददत एका, अजीवं पुनरनेषणीयं भक्तपानादिकं निसृजतस्त्यजतोऽन्या इति २७। पुनरन्यथा द्वे 'आणवणिया चेव'त्ति आज्ञापनस्य आदेशनस्येयमाज्ञापनमेब | वेत्याज्ञापनी सैवाऽऽज्ञापनिका तज्जः कर्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी तथा 'येयारणिया चेव' त्ति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद् वैदारिणीत्यादि वाच्यमिति २८ । एते च द्वे अपि
For Private & Personal use only
व-शिष्यं पुसा जीवनमृष्टिकोनाह एवं स्वहस्तेन जीत
॥४१॥
Jain Educatonnatonal
www.jainelibrary.org