________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥४०॥
Jain Education Inters
परभावस्य वङ्कनता - वञ्चनता या कूटलेखकरणादिभिः सा परभाववङ्कनतेति यतो वृद्धव्याख्येयं तं तं भावमायर जेण परो वंचिज्जर कूडलेहकरणाईहिं" ति १७। तथा द्वितीयाऽपि द्वेधा - 'ऊणाइरित्तमिच्छा दंसणवत्तिया चेव'त्ति ऊनं स्वप्रमाणादीनमतिरिक्तं- ततोऽधिकमात्मादि वस्तु तद्विषयं मिथ्यादर्शनमूनातिरिक्त मिथ्यादर्शन तदेव प्रत्ययो यस्याः सा ऊनातिरिक्तमिथ्यादर्शनप्रत्ययेति, तथाहि - कोऽपि मिथ्यादृष्टिरात्मानं शरीरव्यापकमपि अङ्गुष्ठपर्वमात्र [ यवमात्रं ] श्यामाकतन्दुलमात्रं वेति हीनतया वेत्ति तथाऽन्यः पश्वधनुःशतिकं सर्वव्यापकं वेत्यधिकतयाऽभिमन्यते, तथा 'तव्वइरित्तमिच्छादंसणवत्तियां चैव'ति तस्माद् ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शनं - नास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति १८ । पुनरन्यथा द्वे - 'दिट्टिया चेव' ति जता दृष्टिजा अथवा दृष्टं दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा दृष्टिका - दर्शनार्थ या गतिक्रिया, दर्शनाद् वा यत् कम्र्म्मोदेति सा दृष्टिजा दृष्टिका बा, तथा 'पुट्टिया चेव'त्ति पृष्टिः- पृच्छा ततो जाता पृष्टिजा प्रश्नजनितो व्यापारः, अथवा पृष्टं - प्रश्नः वस्तु वा तदस्ति कारणत्वेन यस्यां सा पृष्टिकेति, अथवा स्पृष्टिः-स्पर्शन ततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति १९ । आद्या द्वेधा 'जीवदिट्टिया चेव'त्ति या अश्वादिदर्शनार्थं गच्छतः, तथा 'अजीव दिट्टिया चेव'त्ति अजीवानां चित्रकर्म्मादीनां दर्शनार्थं गच्छतो या सा अजीवदृष्टिकेति २०। ' एवं पुडियाविति एवमिति जीवाजीवभेदेन द्विधैव तथाहि - जीवमजीवं वा रागद्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवपृष्टिका जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति २१ । पुनरन्यथा द्वे – 'पाडुच्चिया चेव' त्ति बाह्यं वस्तु प्रतीत्य आश्रित्य भवा प्रातीत्यिकी, तथा 'सामंतोवणिवाइयां चेव'त्ति समन्तात् सर्वत उप
For Private & Personal Use Only
HERE Oohotoho
सू० ६०
www.jainelibrary.org