SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ % 3E ६० श्रीस्थानाङ्ग सूत्रदीपिका वृत्ति । ॥३९॥ रितापनिकीति ९॥ अन्यथा द्वे 'पाणाइवायकिरिया चेव'त्ति प्रतीता, तथा 'अपच्चकखाणकिरिया चेवत्ति अप्रत्याख्यानम्-अविरतिस्तनिमित्तः कर्मबन्धोऽप्रत्याख्यानक्रिया सा चाविरतानां भवतीति १०।। आद्या द्वेधा 'सहत्थपाणाइवायकिरिया चेव'त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परप्राणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा 'परहत्य'त्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति ११ । द्वितीयापि द्विधा, 'जीवअपच्चकखाणकिरिया चेव'त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिापारः सा जीवाप्रत्याख्यानक्रिया, तथा 'अजीवअपच्चकखाणकिरिया चेव' त्ति यदजीवेषु मद्यादिष्वप्रत्याख्यानात कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति १२ । 'पुनरन्यथा द्वे 'आरंभियाचेव 'त्ति आरम्भणमारम्भः तत्र भवा आरम्भिकी, तथा 'परिग्गहिया चेव'त्ति पारिग्रहे भवा पारिग्रहिकी १३ । आद्या द्वेधा 'जीवआरंभिया चेवत्ति यजीवानारभमाणस्य-उपमृदनतः कर्मबन्धनं सा जीवारम्भिकी, तथा 'अजीवारंभिया चेव' त्ति यच्चाजीवान् जीवकडेवराणि पिष्टादिमयजीवाकृतींश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भिकी १४ । एवं परिग्गहिया चेव'ति आरम्भिकीवद् द्विधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात्तस्या इति भावः १५ । पुनरन्यथा द्वे 'मायावत्तिया चेव'त्ति माया-शाठयं प्रत्ययो-निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वा सा तथा 'मिच्छादसंणवत्तियां चेव'ति मिथ्यादर्शन-मिथ्यात्वं प्रत्ययो यस्याः सा तथेति १६। आद्या द्वेषा-'आय भाववंकणया चेव'त्ति आत्मभावस्याप्रशस्तस्य वङ्कनता-चक्रीकरण प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रियाव्यापारत्वात , तथा 'परभावकणया चेव'त्ति CCCES ॥३९॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy