________________
सू०६०
वृत्तिः
श्रीस्थानाङ्ग
तथा सम्पराया:-कषायास्तेषु भवा साम्परायिकी, सा ह्यजीवस्य पुदगलराशेः कर्मतापरिणतिरूपा जीवव्यापारसूत्र- स्याविवक्षणादजीवक्रियेति, सा च सूक्ष्मसम्परायान्तानां गुणस्थानकवतां भवतीति । पुनरन्यथा द्वे 'दो किरिये'दीपिका
त्यादि, 'काइया चेवत्ति, कायेन निवृत्ता कायिकी-कायव्यापारः, तथा 'अहिगरणिया चेव'त्ति अधिक्रियते
आत्मा नरकादिषु येन तदधिकरणम्-अनुष्टानं बाह्य वा वस्तु, इह च बाह्यं विवक्षितं खड्गादि, तत्र भवा आधिकर| ३८।।
णिकीति ४ ॥ कायिकी द्विधा-'अणुवरयकायकिरिया चेव त्ति' अनुपरतस्य-अविरतस्य सावद्यात् मिथ्यादृष्टेः सम्यग्दृष्टेर्वा कायक्रिया-उत्क्षेपादिलक्षणा कर्मबन्धनिबन्धनमनुपरतकायक्रिया, तथा 'दुप्पउत्तकायकिरिया चेव'त्ति
दुष्प्रयुक्तस्य दुष्टप्रयोगवतो दुष्प्रणिहितस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्तौ मनाक् संवेगनिर्वेदगमनेन तथा अनिHI न्द्रियमाश्रित्याशुभमनःसङ्कल्पद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य प्रमत्तसंयतस्येत्यर्थः कायक्रिया दुष्प्रयुक्तकाय
क्रियेति ५, आधिकरणिकी द्विधा, तत्र 'संजोयणाहिगरणिया चेव 'त्ति यत् पूर्व निवर्तितयोः खड्गतन्मुष्टयादिकयोरर्थयोः संयोजनं क्रियते सा संयोजनाऽधिकरणिकी, तथा 'णिवत्तणाहिगरणिया चेव'त्ति यच्चादितस्तयोनिवर्त्तनं सा निर्वर्तनाधिकरणिकीति ६ । पुनरन्यथा द्वे पाउसिया चेव 'त्ति प्रद्वेषो-मत्सरस्तेन निवृत्ता प्राद्वेषिकी, तथा परियावणिया चेव'त्ति परितापन-ताडनादिदुःखविशेषलक्षणं तेन निवृत्ता पारितापनिकी ७, आद्या द्विधा-'जीवपाउसिया चेव'त्ति जीवे प्रद्वेषाजीवप्राद्वेषिकी, तथा 'अजीवपाउसिया चेव 'त्ति अजीवे-पाषाणादौ प्रद्वेषादजीवप्राषिकीति ८, द्वितीयाऽपि द्विधा 'सहत्थपारियावणिया चेव'त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्तपारितापनिकी, तथाऽन्या 'परहत्य'त्ति परहस्तेन तथैव तत्कारयतः परहस्तपा
॥३८॥
Jain Educationa
l
For Private & Personal use only
www.jainelibrary.org