SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ सू०.३६०३६१ । भीस्थानाग सूत्रदीपिकावृत्तिः । H४१२॥ छेदादिप्राप्त्या परिस्रावि सूक्ष्मातिचारतया अपरिमावि निरतिचारतयेति, इह च पुरुषाधिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणन तद्धर्मधम्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति १२॥ तथा मधुन:-क्षौद्रस्य कुम्भो मधुकुम्भो मधुभृत मध्वेव वा पिधान-स्थगनं यस्य स मधुपिधानः, एवमन्ये त्रयः १३। पुरुषसूत्रं स्वयमेव 'हियय'मित्यादिगाथाचतुष्टयेन भावितमिति, तत्र हृदय-मनः अपापम्-अहिंस्त्रमकलुषम्-अप्रीतिवर्जितमिति, जिहाऽपि च मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्गयोजना, तृतीयगाथायां यद् हृदयं कलुषमयम्-अप्रीत्यात्मकमुपलक्षणत्वात् पापं च जिहा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तत्साधर्म्यादिति १४। अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चविहा उवसग्गे' त्यादिसूत्रपञ्चकमाह बउव्यिहा उघसग्गा पत--दिव्या माणुसा तिरिक्खजोणिया आयस वेदणिज्जा १, दिव्वा उपसग्गा सउन्धिहा पं० त०-दासा पदोसा वीसा पुढोवेमाया २, माणुस्सा उवसग्गा बउब्विहा पं० त-हासा पदोसा बीमंसा कुसीलपरिसेवणया ३, तिरिक्सजोणिया उवसग्गा चउब्धिहा पं० त०--भया पओसा माहारहेउ अवश्चदेणसारक्सणया ४, आयस वेयणिज्जा उवसग्गा चउब्बिहा पंत--घट्टणया पवडणया थंभणया देशणया ५ ( सू० ३६१)। कण्ठय', नवरमुपसर्जनान्युपसृज्यते वा-धर्मात् प्रच्याव्यते जन्तुरेभिरित्युपसर्गा-बाधाविशेषाः, ते च क. भेदाच्चतुर्विधाः, आत्मना संचेत्यन्ते-क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या 'हास'त्ति-हासाद् भवन्ति हाससम्भूत Jan Education International For Private & Personal use only www.jainelibrary.ory
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy