________________
..0.00404
सू०३५९-३६०।
भीस्थानात
सूत्रदीपिकावृत्तिः ।
॥४१०
++.00000......000000.......०००००.......००
वभासीत्येकोऽन्यस्तु पूर्णोऽपि कुतश्चिदेतोर्विवक्षितप्रयोजनासाधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ ३ । पुरुषस्तु पूणों धनश्रुतादिभिस्तद्विनियोगाच्च परिपूर्ण एवावभासते, अन्यस्तु तदविनियोगात्तच्छ एवावभासते, अन्यस्तु तुरछोऽपि कथमपि प्रस्तावोचितप्रवृत्तः पूर्णवदवभासते, अपरस्तुच्छो धनश्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति ४। तथा पूणों नीरादिना पुनः पूर्णों पुण्यं वा-पवित्रं रूपं यस्य स तथेति प्रथमो द्वितीये तुच्छं-हीन रूपमाकारो यस्य स तुच्छरूपः, एवं शेषौ ५ । पुरुषस्तु पूर्णो ज्ञानादिभिः पूर्णरूपः पुण्यरूपो वा विशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात मुसाधुरिति, द्वितीय भङ्गे तुच्छरूपः कारणात्यक्तलिङ्गः सुसाधुरेवेति, तृतीये तुच्छो ज्ञानादिविहीनो निह्नवादिः, चतुर्थों ज्ञानादिद्रव्यलिङ्गविहीनो गृहस्थादिरिति ६। तथा पूर्णस्तथैव अपिस्तुच्छापेक्षया चः समुच्चयार्थः एकः-कश्चित् प्रियाय-प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः, जया अपदलम्-अपशब्द द्रव्यं झारणभूत मृत्तिकादि यस्यासावपदलः अवदलति वा-दीर्यत इत्यवदलः आमपकतयाऽसार इत्यर्थः, तुच्छोऽप्येवमेवेति ७ । पुरुषो धनश्रुतादिभिः पूर्णः प्रियार्थः कश्चित् प्रियवचनदानादिभिः प्रियकारी सार इति, अन्यस्तु न सत्यपदलः परोपकार प्रत्ययोग्य इति, तुच्छोऽप्येवमिति ८ । 'दत्तारी' त्यादि सुगमानि, पूर्णोऽपि जलादेविष्यन्दते-करन वति, इह तुच्छ:-तुच्छजलादिः स एव विष्यन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९ । पुरुषम्न पूनोऽप्येको विष्यन्दते-धनं ददाति श्रुत वा, अन्यो नेति तुच्छोऽप्यल्पवित्तादिरपि धन तादि विष्यन्दतंऽन्यो नैवेति १०। तथा भिन्नः-स्फुटितो जर्जरितो-राजीयुक्तः परिनावी-दुष्पक्वत्वात् क्षरकः अपरिस्रावी कठिनत्वादिति ११॥ चारित्रं तु भिन्न मूलप्रायश्चित्तापत्त्या जर्जरितं
॥४१॥
Jan Education Inti
al
For Private & Personal use only
www.jainelibrary.org