________________
श्रीस्थानाङ्ग
सुत्रदीपिका वृत्तिः ।
॥३१॥
षष्ठयधिकद्विशतप्रमाणानि वाच्यानि २६०, विशते: कृष्णादिभावानां त्रयोदशभिर्गुणनादिति । साम्प्रतं भङ्गयन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणकत्वमाह-'एगा जहणे'त्यादि, जघन्याः सर्वाल्पाः प्रदेशाःपरमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, द्वचणुकादय इत्यर्थः, स्कन्धा:-अणुसमुदयास्तेषां उत्कर्षन्तीत्युत्कर्षाःउत्कर्षवन्तः उत्कृष्टसख्याः परमानन्ताः प्रदेशा:-अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशकास्तेषां, जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः न तथा ये ते अजघन्योत्कर्षाः, मध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजन्योत्कर्षप्रदेशिकास्तेषाम्, एतेषां चानन्तवर्गणात्वेऽप्यजघन्योत्कर्षशब्दव्यपदेश्यत्वादेकवर्गणात्वमिति । 'जहमोगाहणगाणं'ति, अवगाहन्ते-आसते यस्यां सा अवगाहना-क्षेत्रप्रदेशरूपा सा जघन्या येषां ते स्वार्थिककप्रत्ययाजघन्यावगाहनकास्तेषाम्, एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यातप्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानां सङ्ख्येयासङ्ख्येयप्रदेशावगाढानामित्यर्थः । जघन्या जघन्यसङ्ख्या समयापेक्षया स्थितियेषां ते जघन्यस्थितिकाः, एकसमयस्थितिका इत्यर्थः, तेषां, उत्कर्षा-उत्कर्षवत्सङ्ख्या समयापेक्षया स्थितिर्येषां ते तथा तेषामसङ्ख्यातसमयस्थितिकानामित्यर्थः, तृतीयं कण्ठयं, जघन्येन-जघन्यसङ्ख्याविशेषेणैकेनेत्यर्थः, गुणो-गुणनं ताडनं यस्य स तथा, तथाविधः कालो वर्णों येषां ते जघन्यगुणकालकास्तेषाम्, एवमुत्कर्षगुणकालकानामनन्तगुणकालकानामित्यर्थः, एवं भावसूत्राणि सर्वाण्यपि पष्टिर्भावनीयानि ॥ सामान्यस्कन्धवर्गणकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वमाह
एगे जबूहीवे २ सव्वदीवसमुदाण जाव अद्धंगुलग च किंचिविसेसाहिए परिक्खेवेण (सु०५२) पगे समणे भगव
॥३१॥
Jan Education
For Private & Personal Use Only
421 www.jainelibrary.org