SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना सूत्रदीपिका वृत्तिः ॥३०॥ 'जाव 'त्तिकरणाद 'दुसमयसिद्धाणं तिचउपंचछसत्तहनवदससंखेज्जासंखेजसमयसिद्धाणमिति दृश्यं, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमयसिद्धादयःप्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा, क्वचित् 'पढमसमयसिद्धाण'ति पाठः, तत्र अनन्तरपरम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसिद्धा एव व्याख्यातव्याः, द्वयादिसमयसिद्धास्तु यथाश्रुता एवेति ॥ इतो द्रव्यक्षेत्रकालभावानाश्रित्य पुद्गलवर्गणकत्वं चिन्त्यते-पूरणगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति विशेषयति-परमाणवो-निष्प्रदेशास्ते च पुद्गलाश्चेति विग्रहस्तेषाम् , एवंकरणात् 'दुपएसियाणं खंधाणं तिचउपंचछसत्तहनवदससंखेजपएसियाणं असंखेज्जपएसियाणं'ति दृश्यमिति, कृता द्रव्यतः पुद्गलचिन्ता, अतः क्षेत्रतः क्रियते-'एगा एगपएसिए'त्यादि, एकस्मिन् प्रदेश क्षेत्रस्यावगाढाः-अवस्थिता एकप्रदेशावगाढास्तेषां, ते च परमाण्वादयोऽनन्तप्रादेशिकस्कन्धान्ताः स्युः, अचिन्यत्वाद् द्रव्यपरिणामस्य, यथा पारदस्यकेन कर्षेण चारिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति पुनर्वामिताः प्रयोगतः सप्तैव त इति, 'जाव एगा असंखेज्जपएसोगाढाणं ति, अनन्तप्रदेशावगाहित्वं तु नास्ति पुद्गलानां, लोकलक्षणस्यावगाहक्षेत्रस्याप्यसख्येयप्रदेशत्वादिति, कालत आह-'एगा एगसमए'त्यादि, एक समयं यावत् स्थितिः परमाणुत्वादिना एकप्रदेशावगाढादित्वेन एकगुणकालादित्वेन वा अवस्थानं येषां ते एकसमयस्थितिकास्तेपामिति, इह च अनन्तसमयस्थितेः पुद्गलानामसम्भवाद् 'असंखेज्जसमयद्वितियाण'मित्युक्तमिति, भावतः पुद्गलानाह-'एगगुणे 'त्यादि, एकेन गुणो-गुणनं ताडनं यस्य स एकगुणः, एकगुणः कालो वर्णों येषां ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्णतमादीनां येभ्य आरभ्य प्रथममुत्कर्षप्रवृत्तिर्भवतीति भावस्तेषाम् , इत्येवं सर्वाण्यपि भावसूत्राणि For Private & Personal use only ॥३०॥ Jain Education ! |www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy