________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः
||३२||
Jain Education Inter
FOOTO FO
महावीरे इमीसे ओसप्पिणीए चउव्वीसाप तित्थगराणं चरमतित्थयरे सिद्धे बुद्धे मुत्ते जाव सव्वदुक्ख होणे (सू०५३) अणुतवायाण देवाण पगा रयणी उड्ढ उच्चत्तेण पन्नत्ता (सू०५४) अहाणखत्ते एतारे पन्नत्ते, चित्ताणक्खत्ते तारे पंप, सातीणक्खत्ते एगतारे पं० (सू०५५) एगपरसोगाढा पोगाला अनंता पन्नत्ता, पचमेगसमयठितिया पगगुणकालगा पोग्गला अनंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अनंता पन्नत्ता || (सू०५६) एगड्डाणं समन्तं ॥
'जंबू'त्ति जम्ब्वा - वृक्षविशेषेणोपलक्षितो द्वीपो जम्बूद्वीपः द्वीप इति नाम सामान्यं यावद्ग्रहणादेवं सूत्रं दृष्टव्यम् - 'सव्वन्तरए सव्वखुड्डाए बट्टे तेल्लापूयसंठाणसंठिए' इत्यादि, मुगममेतत् उक्तविशेषणश्च जम्बूद्वीप एक एव, अन्यथा अनेकेsपि ते सन्तीति ।। अनन्तरं जम्बूद्वीप उक्त इति तत्प्ररूपकस्य भगवतो महावीरस्यैकतामाह'एगे समणे' इत्यादि, एकः - असहायः अस्य च सिद्ध इत्यादिना सम्बन्धः उक्तं च- " एगो भयवं वीरो, तित्तीसाए सह frogओ पासो । छत्तीसएहिं पंचहिं, सएहिं नेमी उसिद्धिगओ || १||" इत्यादि, एकाकी वीरो निर्वृत इत्युक्तं, निर्वृतिक्षेत्रासन्नानि चानुत्तर विमानानीति तन्निवासिदेवदेहमानमाह - 'अनुत्तरे' त्यादि, अनुत्तरत्वादनुत्तराणि - विजयादिविमानानि तेषु य उपपातो जन्म स विद्यते येषां तेऽनुत्तरोपपातिकास्ते, णंकारौ वाक्यालङ्कारे, देवा:- सुराः, 'एगा स्यणि' त्ति, एकां रनिं- हस्तं यावत्, 'उड्ढं उच्चणं' ति, वस्तुनो ह्यनेकधोच्चत्वम्, ऊर्ध्वस्थितस्यैकमपरं तिर्यक्रस्थितस्यान्यत् गुणोन्नति रूपम्, तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तदूर्ध्वोच्चत्वमित्यागमे रूढमिति तेनोर्ध्वोच्चत्वेन, अनुस्वारः प्राकृतत्वात् प्रज्ञप्ताः - प्ररूपिताः सर्वविद्भिरिति, देवाधिकादेव नक्षत्रदेवानां 'अद्दा नकूखते' त्यादिना कण्ठचेन सूत्रत्रयेण तारैकत्वमुक्तं, तारा च ज्योतिर्विमानरूपेति,
For Private & Personal Use Only
hower
सु०५३-५६
॥३२॥
www.jainelibrary.org