SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ सू० ३.२-३४४॥ श्रीस्थानात सूत्रदीपिका वृत्तिः । ॥३८९॥ 16.000000000.00000006..+++++000000000०००००००००००००० अथ चिकित्स्य व्रण दृष्टान्तीकृत्य पुरुषभेदानाह-'चत्तारी'त्यादि, चतुःसूत्री सुगमा, नवरं, अन्तमध्ये शल्य यस्य अदृश्यमानमित्यर्थः तत्तथा, 'बाहिंसल्ले' त्ति यच्छल्यं व्रणस्यान्तरल्प बहिस्तु बहु तद्वहिरिव बहिरित्युच्यते, अन्तो वहिः शल्यं यस्य तत्तथा १, यदि पुनः सर्वथैव तत्ततो बहिः स्याद् तदा शल्यतेव न स्यात् उद्धृतत्वे वा भूतभावितया स्यादपीति २, यत्र पुनरन्तबहु बहिरप्युपलभ्यते तदुभयशल्य ३, चतुर्थः शून्य इति ४, गुरुसमक्षमनालोचितत्वेनान्तः शल्यम्-अतिचाररूपं यस्य स तथा, बहिः शल्यमालोचिततया यस्य तत्तथा, अन्तर्बहिश्च शल्यमालोचितानालोचितत्वेन यस्य स तथा, चतुर्थः शून्यः । अतर्दुष्ट व्रण लूतादिदोषतः, न बही रागाद्यभावेन सौम्यत्वात् ४, पुरुषस्तु अन्तदुष्टः शठतया संवृताकारत्वान्न बहिरित्येकः, अन्यस्तु कारणेनोपदर्शितवाक्पारुष्याबहिरेवेति । पुरुषाधिकारात् तद्भेदप्रतिपादनाय षट्स्त्री व्यक्ता च, किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सबोधत्वात् पुनः श्रेयान् प्रशस्तानुष्ठानत्वात् साधुवदित्येकः १, अन्यस्तु श्रेयांस्तथैव अतिशयेन पापः पापीयान् , स चाविरतत्वन दुग्नुष्ठायित्वादिति २, अन्यस्तु पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच श्रेयानुदायिनूपमारकवत् ३ चतुर्थः स एव कृतपाप इति ४, अथवा श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा पुनः श्रेयान् प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि । श्रेयानेको भावतो द्रव्यतस्तु श्रेयान् प्रशस्यतर इत्येवंबुद्धिजनकत्वेन सदृशकः-अन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेत्येकः १, अन्यस्तु भावतः श्रेयानपि द्रव्यतः पापीयान् एवं बुद्धिजनकत्वेन सदृशकोऽन्येन पापीयसा समानो न तु पापीयाने वेति द्वितीयः २, भावतः पापीयानप्यन्यः संवृताकारतया श्रेयानित्येवंबुद्धिजनकतया सदृशकोऽन्येन श्रेयसेति तृतीयः ३, चतुर्थः मुज्ञानः । श्रेयानेकः स तत्वात् श्रेयानित्येवमात्मानं ॥३८॥ Jan Education International For Private & Personal use only
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy