SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥३८८॥ Jain Education International त्यादि कण्ठ्य, चिकित्सा - रोगप्रतीकारस्वस्याभ्रातुर्विध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि “भिषय १ द्रव्याण्यु २ पस्थाता ३, रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्विधम् ||१|| दक्षो १ विज्ञातशास्त्रार्थी २, दृष्टकर्म्मा ३ शुचिर्भिषक् । बहुकल्प १ बहुगुणं २, सम्पन्न ३, योग्यमौषधम् ४ || २ || अनुरक्तः शुचिर्दक्षो३, बुद्धिमान् ४ परिचारकः । आढ्यो १ रोगी भिषग्वश्योर, ज्ञापकः ३ सत्त्ववानपि ||३||" इति इयं द्रव्यरोगविचिकित्सा, मोह भावरोगविचिकित्सा त्वेवं- “निव्विगइ निब्बलोगे, तब उद्धद्वाणमेव उच्भामे । वैयावच्चाहिंडण, मंडल कप्पट्ठियाहरणं ॥ १॥ 'ति, निर्बलं-वल्लादि, अवममूनं, उद्भ्रमो - भिक्षाभ्रमणम्, आहिण्डणं देशेषु, मण्डली - सूत्रार्थयोः, 'कपट्टिया' श्रेष्ठिवधूरिति । चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति भावतो रागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वा चिकित्सक: - प्रतिकर्त्तेत्यात्मचिकित्सक इति । अथात्मचिकित्सकान् भेदतः सूत्रत्रयेणाह – 'चत्तारी' त्यादि, कण्ठयं, नवरं वर्ण- देहे क्षतं स्वयं करोति रुधिरादिनिगलनार्थमिति व्रणकरो नो-नैव वणं परिमृशतीत्येवंशीलो arviraiत्येकः, अन्यस्त्वन्यकृतं वणं परिमृशति न च तत् करोतीति, एवं भावत्रणमतिचारलक्षणं करोति कायेन न च तदेव परिमृशति - पुनः पुनः संस्मरणेन स्पृशति, अन्यस्तु तत्परिमृशत्यभिलापान्न च तत् करोति संसार - यादिभिरिति, व्रणं करोति न च तत् पट्टबन्धादिना संरक्षति अन्यस्तु कृतं संरक्षति न च करोति, भावत्रणं त्वाश्रित्यातिचार करोति न च तं सानुबन्धं भवन्तं कुशीलादिसंसर्गतन्निदानपरिहारतो रक्षत्येकोऽन्यस्तु पूर्वकृतातिचारं निदानपरिहारतो रक्षति च न करोति, 'नो' नैव वणं संरोहयत्यौषधदानादिनेति ऋणसंरोही, भावत्रणापेक्षया तु नो व्रणसंरोही प्रायश्चित्ताप्रतिपत्तेः व्रण संरोही पूर्वकृताविचारप्रायश्चित्तप्रतिपत्त्या, नो व्रणकरोऽपूर्वातिचाराकारित्वादिति । उक्ता आत्मविचिकित्सकाः, For Private & Personal Use Only सू० ३४२-३४४ । ॥३८८॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy