________________
श्रीस्थाना
सू०३३८ ।
दीपिका वृत्तिः ।
जगभूत माविलाय कारणोपचासचनसम्पाद्यो विप्रक
॥३८२॥
इति । 'आगमे'त्ति आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागम:-आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, अथवेतीहाऽन्यथाऽनुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधः, चतुर्भङ्गीरूपत्वात्, तत्र अस्ति-विद्यते तदिति-लिङ्गभूतं धूमादिवस्तु इतिकृत्वा अस्ति सः-अग्न्यादिकः साध्योऽर्थ इत्येवं हेतुरिति अनुमान, तथा अस्ति तदग्न्यादिक वस्त्वतो नास्त्यसौ तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति वृक्षत्वादिकमिति नास्ति शिंशपादिकोऽर्थ इत्यपि हेतुरनुमानमिति, इह चशब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्व घटवत्तथा धूमस्यास्तित्वादिहास्त्यग्निमहानस इवेत्यादिक, शेष वृत्तौ । अनन्तरं हेतुशब्देन ज्ञानविशेष उक्तस्तदधिकाराद् ज्ञानविशेषनिरूपणायाह--
चउब्बिहे सखाणे ५० त--परि(डि)कम्म १ ववहारे २ रज्जू ३ रासी ४ । अहोलोगे ण चत्तारि अंधगार करें ति, त०–णरगा णेरइया पावाई कम्माई असुहा पोग्गला ४,१, तिरियलोए ण चत्तारि उज्जोय करें ति, तंचंदा सूरा मणी जोई ४,२, उहलोप ण चत्तारि उज्जोय करें ति, त-देवा १ देवीओ २ विमाणा ३ आभरणा ४, ३ ( सू० ३३८ )॥ चउढाणस्स तइओ उद्देसओ सम्मत्तो ।।
'चउबिहे' इत्यादि, सङ्ख्यायते-गण्यते अनेनेति सङ्ख्यानं गणितमित्यर्थः, तत्र परिकम सङ्कलनादिक * पाटीप्रसिद्धम् , एवं व्यवहारोऽपि मिश्रकव्यवहारादिरनेकधा, रज्जुरिति रज्जुगणित क्षेत्रगणितमित्यर्थः, राशिरिति त्रैराशि
कपश्चराशिकादीनि । रज्जुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणामाह 'अहे' इत्यादि सुगमानि, किन्तु अधोलोके-उक्तलक्षणे चत्वारि वस्तूनीति गम्यते, नरका-नरकावासा
॥३८२॥
Jan Education Intonal
For Private & Personal use only
www.jainelibrary.org