SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ सू०३३८। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३८॥ -600000000000000000000000000000000000000000000000000004 कस्माद् ब्रह्मचर्या दिकष्टमनुष्ठीयते ?, यस्मादकृतत्तपसां नरकादौ गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति, इह च किञ्चिद्विशेषेणैवंविधा ज्ञातभेदाः सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः अन्तर्भावो वा कथञ्चिद् गुरुभिर्विवक्षितो न च तवयं सम्यग् जानीम इति । अथ ज्ञातानन्तरं ज्ञातवद्धतोः साध्यसिद्धयङ्गत्वात् तदुभेदानाह-'हेऊ' इत्यादिना सूत्रत्रयेण-व्यक्तं चैतनवर, हिनोति-गमयति ज्ञेयमिति हेतुः-- अन्यथाऽनुपपत्तिलक्षणः, उक्त च-"अन्यथाऽनुपपन्नत्व, हेतोर्लक्षणमीरितम् । तदप्रसिद्धिसन्देह-विपर्यासैस्तदाभता॥१॥" इति, प्रागुक्तश्च हेतुः पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रमयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधदृष्टान्तस्मृततद्भाव इति, स चैकलक्षणोऽपि किञ्चिद्विशेषाचतुर्दा, तत्र 'जावए'ति यापयति-वादिनः कालयापनां करोति, यथा काचिदसती एकैकरूपकेण एकैकमुष्टलिण्ड दातव्यमिति दत्तशिक्षस्य पत्युस्तद्विक्रयार्थमुज्जयिनीप्रेषणोपायेन विटसेवायां कालयापनां कृतवतीति यापकः, इह वृद्घाख्यातम्-प्रतिवादिन ज्ञात्वा तथा तथा विशेषणबहुलो हेतुः कर्त्तव्यो यथा कालयापना भवति, ततोऽसौ नावगच्छति प्रकृतमिति विस्तरो वृत्तौ। तथा 'थावए'त्ति स्थापयति पक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात् समर्थयति, यथा परिव्राजकधः लोकमध्यभागे दत्तं बहुफलं भवति तदहमेव जानामीति मायया प्रतिग्राममन्यान्य लोकमध्य प्ररूपयति सति तन्निग्रहाय कश्चिच्छावको लोकमध्यस्यैकत्वात् कथं बहुषु ग्रामादिषु तत्सम्भव इत्येवं विधोपपत्त्या त्वदर्शितो भो ! लोकमध्यभागो न भवतीति पक्ष स्थापितवानिति स्थापको हेतुः। तथा 'वंसए'त्ति व्यंसयति-पर व्यामोहयतिशकटतित्तिरीग्राहकधुतवद स व्यंसक इति, तथाहि-कश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः उक्तो धूर्तेन यथा---शकटतित्तिरी कथं लभ्यते ?, स च किलायं शकटस्य सत्कां तित्तिरी याचत इत्यभिप्राया ..०००००००००००००...+000०.००००००००००००००००००6000..... ॥३८०॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy