________________
भीस्थानान
सूत्रदीपिकावृत्तिः ।
++++++++++++++
सू०३३८1
+
॥३७९||
...............००००००००००००००००००.....०००००००......
न्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुक्तं विघटयति, यदुत-यानि पुनर्मध्ये तेषां का वाचा ? इत्येतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयो, ज्ञातत्वं चास्य ज्ञातनिमित्तत्वात् , विस्तरो वृत्तौ । । तथा 'तयन्नवत्थुए' ति, तस्मात् परोपन्यस्ताद्वस्तुनोऽन्यदुत्तरभूत यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको, यथा जले पतितानि जलचरा इत्युक्ते एतद्विघटनाय पतनादन्यदुत्तरमाह-यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति ?, न किञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथारूढमेव ज्ञातमेषः, तथाहि--न जलस्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव, अयमभिप्रायो, यथा जलाद्याश्रितत्वाज्जलचरादितया तानि सम्पद्यन्ते तथा मनुष्याद्याश्रिततया मनुष्यादिभवयुकादितयाऽपि सम्पद्यन्ताम् , आश्रितत्वस्याविशेषात् , न च तानि तथाऽभ्युपगम्यन्त इति जलादिगतानामपि जलचरत्वाद्यसम्भव इति, तथा 'पडिनिभे ति यत्रोपन्यासोपनये वादिनोपन्यस्तवस्तुनः सदृशं वस्तूत्तरदानायोपनीयते स प्रतिनिभो, यथा-कोऽपि प्रतिजानीते यदुत-यो मामपूर्व श्रावयति तस्मै लक्षमूल्यमिदं कटोरकं ददामीति, स च श्रावितोऽपि तन्नाऽपूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तम्-"तुज्झ पिया मह पिउणो, धारेइ अणूणय सयसहस्सं । जइ सुयपुव्वं दिजउ, अह न सुर्य खोरयं देहि ॥१॥" ति, प्रतिनिभता चास्य पू(सर्वस्मिन्नप्युक्ते श्रुतपूर्वमेवेदं ममेत्येवमसत्यं वचो ब्रुवाणस्य परस्य निग्रहाय तव पिता मम पितुरियति लक्षमित्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति, अस्य चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्वमुक्तमिति । तथा 'हेउ'त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरिति, यथा केनापि कश्चित् पर्यनुयुक्तः--अहो ! कि यवाः क्रीयन्ते त्वया ?, स त्वाह-येन मुधैव न लभ्यन्ते इति, तथा
++++++++++++++++++++++++++++++
Jain Education International
For Private & Personal use only
www.jainelibrary.org