________________
श्रीस्थानाङ्ग
सूत्र
दीपिकावृत्तिः ।
॥ ३७८ ॥
Jain Education Internati
धानः स्थपतिरवोचत्-भेदस्थाने कपिलादिगुणे पुरुषे निखाते सतीति, अमात्येन तु स एव तत्र तद्गुणत्वान्निखात इति तेनात्मैव नियुक्तः स्ववचनदोषात्, तदेवंविधमात्मोपनीतमिति, अत्रोदाहरण - यथा सर्वे सत्त्वा न हन्तव्या इत्यस्य पक्षस्य दूषणाय कश्चिदाह- अन्यधर्म्मस्थिता हन्तव्या विष्णुनेव दानवा इत्यादि, तदोषता तु प्रतीतैवास्येति, 'दुरोवणीए' ति दुष्टमुपनीतं - निगमित योजितमस्मिन्निति दुरुपनीतं परित्राजकवाक्यवद्, यथा हि किल कश्वित्परिव्राजको जालव्यग्रकरो मत्स्यबन्धाय चलितः, केनचिद् धूर्तेन किञ्चिदुक्तस्तेन च तस्योत्तरमसङ्गतं दत्तम् अत्र च वृत्तं - " कन्थाऽऽचार्याऽघना ते ननु शफरवधे जालमश्नासि मत्स्यांस्तेमे मद्योपदंशान् पित्रसि ननु ? युतो वेश्यया यासि वेश्याम् ? | दत्त्वारीणां गलेऽहूिं क्व नु तव रिपवो ? येषु सन्धि छिनद्मि चौरस्त्वं ! धुतहेतोः कितव इंति कथं येन दासीसुतोऽस्मि ||१||" इत्येवं प्रकृतसाध्यानुपयोगि स्वमतदूषणावह वा यत्तद्दाष्टन्तिकेन सह साधर्म्याभावाद् दुरुपनीतमिति, अत्र गाथा: - “पढमं अहम्मजुत्त, पडिलोमं अत्तणो उवण्णासो । दुरुवणियं च चउत्थ अहम्मजुत्तंमि नलदामो || १ || पडिलोमे जड अभओ, पज्जोय हरइ अवडिओ संतो" त्ति । “अत्तउवन्नामि य तलाभेमि पिंगलो थवई । अणिमिसगिण्दणभिच्छुग- दुखणीए उदाहरणं ॥ १|| "ति उक्त आहरणतदोषोऽधुनोपन्यासोपनय उच्यते, स च चतुर्द्धा तत्र 'तव्वत्थुए' त्ति तदेव - परोपन्यस्तसाधनं वस्त्विति - उत्तरभूतं वस्तु यस्मिन्नुपन्यासोनये स तद्वस्तुकोऽथवा तदेव - परोपन्यस्तं वस्तु तदेव तद्वस्तुकं तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुक इत्युच्यते, एवमुत्तरत्रापि यथा कश्विदाह - समुद्रतटे महान् वृक्षोऽस्ति तच्छाया ( तच्छाखा) जलस्थलयोरुपरि स्थिताः, तत्पत्राणि च यानि जले निपतन्ति तानि जलचरा जीवा भवन्ति यानि च स्थले निपतन्ति तानि स्थलचरा इति, अन्यस्तदुप
For Private & Personal Use Only
सू० ३३८ ।
॥३७८॥
www.jainelibrary.org