________________
श्रीस्थानात
सू०३३८ ।
दीपिका वृत्तिः ।
॥३७७॥
मार्दवसम्पन्नमन्यमालम्ब्य किश्चिद यात् , गौतममाश्रित्य भगवानिवेति, तथाहि-किल गौतमं तापसादिप्रव्रजितानां केवलोत्पत्तावनुत्पन्न केवलत्वेनाधृतिमन्तं चिरसंसृष्टोऽसि गौतम ! चिरपरिचितोऽसि गौतम ! मा त्वमधृति कार्पोरित्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासिताः, तदनुशासनार्थ द्रुमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तं च-"पुच्छाए कोणिए खलु, निस्सावयणमि गोयमस्सामि"त्ति ॥ व्याख्यातं तद्देशोदाहरणं, तदोषोदाहरणमथ व्याख्यायते, तच्चतुर्धा, तत्र 'अहम्मजुए' ति यदाहरणं कस्यचिदर्थस्य साधनायोपादीयते केवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते तदधर्मयुक्तं, तद्यथा-उपायेन कार्याणि कुर्यात् कोलिकनलदामवत् , तथाहि-पुत्रखादकमकोटकमार्गेणोपलब्धविलवासिनामशेषमकोटकानां तप्तजलस्य बिले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्तचाणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविन्देन चौर्यसहकारितालक्षणोपायेन विश्वामिता मिलिताश्चौरा विषमिश्रभोजनदानतः सर्वे व्यापादिता इति, आहरणतद्दोषता चास्याधर्म मुक्तत्वात्तथाविधश्रोतुरधर्मबुद्धिजनकत्वाच्च, अत एव नैवंविधमुदाहर्त्तव्यं यतिनेति, 'पडिलोमे' त्ति प्रतिकूलं यत्र प्रातिकूल्यमुपदिश्यते यथा-शठं प्रति शठत्वं कुर्यात् , यथा चण्डोप्रद्योते तदपहरणार्थ तदपहृताभयकुमारश्चकारेति, तद्दोषता चास्य श्रोतुः परापकारकरणनिपुणबुद्धिजनकत्वात् , अथवा धृष्टप्रतिवादिना द्वावेव राशी जीवश्चाजीवश्चेत्युक्ते तत्प्रतिघातार्थ कश्चिदाह-तृतीयोऽप्यस्ति नोजीवाख्यो गृहकोकिलादिछिनपुच्छवदिति, अस्यापि तद्दोषताऽपसिद्धान्ताभिधानादिति, 'अत्तोवणीए' ति आत्मैवोपनीतः-तथा निवेदितो नियोजितो यस्मिंस्तत्तथा, येन ज्ञातेन परमतषणायोपात्तेनात्ममतमेव दुष्टतयोपनीयते यथा पिङ्गलेनात्मा तदात्मोपनीत, तथाहि-कथमिद तडागमभेद भविष्यतीति राज्ञा पृष्टः पिछालाभि
॥३७७॥
Jain Education
For Private & Personal use only
www.jainelibrary.org