SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ सू० ३३०-३३४। श्रीस्थानात सूत्रदीपिका वृत्तिः । ॥३७०॥ 6.००००००००००000000000000000000000000००००००००००००००००० कुड्यादिकमवलम्बयिष्ये, तथा तत्रैव स्तोकपादविहरण समाश्रयिष्यामीति प्रथमा प्रतिज्ञा, द्वितीया त्वाकुञ्चनप्रसारणादिक्रियामवलम्बन च करिष्ये न पादविहरणमिति, तृतीया त्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति, चतुर्थी पुनर्यत्र त्रयमपि न विधत्ते । अनन्तरं शरीरचेष्टानिरोध उक्त इति शरीरप्रस्तावादिदं सूत्रद्वयं-'चत्तारित्ति व्यक्त, किन्तु जीवेन स्पृष्टानि-व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिक जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, 'कम्मम्मीसग'त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्रकाण्यपि भवन्ति नैवं कार्मणेनेति भावः । शरीराणि कार्मणेनोन्मिश्रकाणीत्युक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं-'चउहि"ति गतार्थ, केवल 'कुडे'त्ति स्पृष्टः - प्रतिप्रदेश व्याप्तः, सूक्ष्माणां पञ्चानामपि सर्वलोके उत्पादात् बादरतैजसानां तु सर्वलोकादुद्धृत्य मनुष्यक्षेत्रो ऋजुगत्या वक्रगत्या वोत्पद्यमानानां द्वयोरूर्ध्वकपाटयोरेव वादरतेजस्त्वव्यपदेशस्येष्ठत्वाच्च 'चडहिं बायरकाएहि' इत्युक्त, बादरा हि पृथिव्यम्युवायुनस्पतयः सर्वलोकादुवृत्य पृथिव्यादि-घनोदध्यादि-धनवातवलयादि-घनोदध्यादिषु यथास्वमुत्पादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याप्तकावस्थायामतिबहुत्वात् सर्वलोक प्रत्येक प्रत्येक स्पृशन्ति, पर्याप्तास्त्वेते बादरतेजस्कायिकास्त्रसाश्च लोकासङ्ख्येयभागमेव स्पृशन्तीति, उक्तञ्च प्रज्ञापनासूत्रे-"एत्थ ण वायरपुढ विकाइयाण पज्जत्तगाणं ठाणा पन्नत्ता" इत्यादि, चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति लोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योन्यं प्रदेशतः समतामाह-'चत्तारी'त्यादि कण्ठय, नवरं प्रदेशाग्रेण प्रदेशप्रमाणेनेति तुल्याः-समाः सर्वेषामेपामसङ्ख्यातप्रदेशत्वात् , 'लोयागासे'त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिकायादिभिः सहातुल्यताप्रसक्तेर्लोकग्रहणमिति । 00000000000000000000000000000000000000000000000000 mmmmmmmmmm mmmmm ॥३७॥ Jain Education ! For Private & Personal use only www.jainelibrary.ory
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy