________________
श्रीस्थानान
सू० ३३०-३३४।
दीपिका वृत्तिः । ॥३६९॥
००००००००००००००००००00000000000000000000000000000000000000
'चत्तारी'त्यादि, हिया-लज्जया सत्त्वं-परीपहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स हीसत्त्वः, तथा ह्रिया-हसिष्यन्ति मामुत्तमकुलजात जना इति लज्जया मनस्येव न काये रोमहर्षकम्पादिभयलिङ्गगोपदर्शनात् सत्त्व यस्य स हीमनःसत्त्वः, चलमस्थिर परीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य स चलसत्त्वः, एतद्विपर्ययात् स्थिरसत्वः । स्थिरसत्त्वोऽनन्तरमुक्तः, स चाभिग्रहान् प्रतिपद्य पालयतीति तद्दर्शनाय सूत्रचतुष्टयमिदं-'चत्तारि सेज'त्ति, सुगम, नवरं शय्यते यस्यां सा शय्या-संस्तारकः तस्याः प्रतिमा-अभिग्रहाः शय्याप्रतिमाः, तत्रोदिष्ट फलकादीनामन्यतमत् ग्रहीष्यामि नेतरदित्येका, यदेव प्रागुद्दिष्ट तदेव यदि द्रक्ष्यामि तदा तदेव ग्रहीष्यामि नान्यदिति द्वितीया, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत् (त) आनीय तत्र शयिष्ये इति तृतीया, तदपि फलकादिक यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्नथेति चतुर्थी, आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतस्रोऽपि कल्पन्त इति. वनप्रतिमा -वस्त्रग्रहणविपये प्रतिज्ञाः, कार्पासिकादीत्येवमुद्दिष्टं वस्त्र याचिष्ये इति प्रथमा, तथा प्रेक्षित वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्राय वस्त्र ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकं ग्रहीष्यामीति चतुर्थी, पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिष्ये १, तथा प्रेक्षित २ तथा दातुः स्वाङ्गिक परिभुक्तप्राय द्वित्रेषु वा पात्रेषु पर्यायेण परिभुज्यमान पात्रं याचिष्ये इति तृतीया, उज्झितध
मकमिति चतुर्थी, स्थान-कायोत्सर्गाद्यर्थ आश्रयः तत्र प्रतिमाः स्थानप्रतिमाः, तत्र कस्यचिद् भिक्षोरेवंभूतोऽभिग्रहो भवति यथा--अहमचित्त स्थानमुपाश्रयिष्यामि तत्र चाकुञ्चनप्रसारणादिकां क्रियां करिष्ये, किञ्चिदचित्त
D
25- .4.०००००००००००००००००००0000000000000000000000000000000000
।
Jain Education
For Private & Personal use only
www.jainelibrary.ory