________________
सू० ३२७-३२९।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३६७॥
रतीति पाठान्तरम् , आकीर्णोऽन्य आरोहकदोषेण खलङ्कतया-गलितया वहति, अन्यस्तु खलुकः आरोहकगुणादाकीर्णतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषा दाान्तिका योज्याः, सूत्रे तु क्वचिन्नोक्ताः विचित्रत्वासूत्रगतेः । 'चत्तारित्ति मुगमानि, ५ जाति ४ कुल ३ बल २ रूप १ जयपदेषु दशभिकिसंयोगैर्दशैव प्रकन्थकदृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दार्शन्तिकपुरुषसूत्राणि भवन्तीति, नवरं जयः-पराभिभव इति, सिंहतया-ऊर्जवृत्त्या निष्क्रान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति, शृगालतया-दीनवृत्त्येति । पूर्व पुरुषाणामश्वादिभिर्जात्यादिगुणेन समतोकाऽधुनाऽप्रतिष्ठानादीनां तामेव प्रमाणत आह
__ चत्तारि लोगे समा पं० तं०-अपतिट्ठाणे णरए १ जंवूद्दीवे दीवे २ पालए जाणविमाणे ३ सयट्टसिद्ध महाविमाणे ४ चत्तारि लोए समा सपक्खिं सपडिदिसि पं० २०-सीमंतए नरप १ समयखेत्ते २ उडू विमाणे ३ ईसीपभारा पुढवी ४ (सू० ३२८)। उइढलोए णं चत्तारि विसरीरा पं० त०-पुढविकाइया आउ० वणस्सइ० ओराला तसा पाणा, अहो लोगे णं चत्तारि बिसरीरा पं० त०-एवं चेव, एवं तिरियलोगेवि ४ (सू० ३२९)।
'चत्तारी'त्यादि सूत्रद्वयं मुगमं, किन्तु अप्रतिष्ठानो नरकावासः सप्तम्यां नरकपृथिव्यां, स च योजनलक्ष, पालक पालकदेवनिर्मितं सौधर्मेन्द्रराबन्धि यानं च तद्विमानं च यानाय वा-गमनाय विमानं यानविमान, न तु शाश्वतमिति, सर्वार्थसिद्धं विमान । चत्वारो लोके समा भवन्ति, कथमित्याह- 'सपक्खिं सपडिदिसिं'ति समानाः पक्षाः-पार्धा दिशो यस्मिन् तत्सपक्षमिहेकारः प्राकृतत्वेन, तथा समानाः प्रतिदिशो-विदिशो यस्मिन् तत् सप्रतिदिक तद् यथा भवत्येवं समा भवन्तीति, सदृशाः पक्षैरिति सपक्षमित्यव्ययीभावो वेति, पृथुसङ्कीर्णयाहि द्रव्य
For Private & Personal use only
॥३६७॥
Jain Education
"www.jainelibrary.org