SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ सू० ३२७ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३६६॥ .0000000000000000000000000000000000000000000000000004 तुर्थोऽसंयतः, त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्तगृहवासो गृहस्थत्वादेकः, अन्यस्तु परिहतगृहवासो यतिवादभावितत्वान्न परिहृतसंज्ञः, अन्य उभयथा अन्यो नोभयथेति । इहैव जन्मन्यर्थः-प्रयोजनं भोगसुखादि आस्था वाइदमेव साध्विति बुद्धिर्यस्य स इहार्थः इहास्थो वा भोगपुरुष इहलोकप्रतिबद्धो वा, परत्रैव जन्मान्तरे अर्थ आस्था वा यस्य स परार्थः परास्थो वा साधुर्बालतपस्वी वा, इह परत्र च यस्यार्थ आस्था वा स सुश्रावकः, उभयप्रतिबद्धो वा उभयप्रतिषेधवान् कालशौकरिकादिमुढो वेति, अथवा इहैव विवक्षिते ग्रामादौ तिष्ठतीति इहस्थस्तत्प्रतिबन्धान्न परस्थोऽन्यस्तु परत्र प्रतिबन्धात् परस्थोऽन्यस्तू भयस्थोऽन्यः सर्वाऽप्रतिवद्धत्वादनुभयस्थोभावसाधुरिति । एकेनेति श्रुतेन एकः कश्चिद्वर्द्धते एकेनेति सम्यग्दर्शनेन हीयते, तथोक्तं-"जह जह वहुस्सुओ संमओ य, सीसगणसंपरिबुडो य । अविणिच्छिओ य समये, तह तह सिद्धंतपडिणीओ ॥१॥" इत्येकस्तथा एकेन श्रुतेनैवान्यो वर्द्धते द्वाभ्यां सम्बग्दर्शनविनयाभ्यां हीयते इति द्वितीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते एकेन सम्यग्दर्शनेन हीयते इति तृतीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयत इति चतुर्थः, अथवा ज्ञानेन वर्द्धते रागेण हीयते इत्येकः, अन्यो ज्ञानेन वर्द्धते रागद्वेषाभ्यां हीयते इति द्वितीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागेण हीयते इति तृतीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागद्वेषाभ्यां हीयत इति चतुर्थः । प्रकन्थकाः पाठान्तरेण कन्थका वा-अश्वविशेषाः, आकीर्णो-व्याप्तो जवादिगुणैः पूर्व पश्चादपि तथैव, अन्यस्त्वाकीर्णः पूर्व पश्चात्खलुको-गलिरविनीत इति. अन्य पूर्व खलङ्कः पश्चादाकीर्णो गुणवान् , चतुर्थः पूर्व पश्चादपि खलुङ्क एवेति । आकी गुणवान आकीर्णतया-गुणवत्तया विनयवेगादिभिरित्यर्थः, वहति-प्रवर्तते विह ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy