________________
सू०३२७
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
गमिष्यतीति सुगतिगामी, मुगतः-ईश्वर इत्यर्थः। दुर्गतस्तथैव दुर्गतिं गतो यात्राजनकुपिततन्मारणप्रवृत्तमकवत् , एवमन्ये त्रयः। तम इव तमः पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकः, अन्यस्तु तमः पूर्व पश्चाज्ज्योतिरिव ज्योतिः उपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वाद्वा, शेपौ मुज्ञातौ। तमः-कुकर्मकारितया मलिनस्वभावस्तमोऽज्ञानं बलं-सामर्थ्य यस्य स तमोऽन्धकारं वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरो वा चं.रादिरित्येकः, तथा तमस्तथैव ज्योतिर्ज्ञानं बलं यस्य आदित्यादिप्रकाशो वा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा. अयं चासदाचारो ज्ञानवान् दिनचारी वाऽचौरादिरिति द्वितीयो, ज्योतिः-सत्कर्मकारितयोज्ज्वलनस्वभावः, तमोबलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वा रात्रिचर इति तृतीयः, चतुर्थः मुज्ञानः, अयं च सदाचारवान् ज्ञानी दिनचरो वेति । तथा तमस्तथैव 'तमबलपज्जलणे'त्ति तमो-मिथ्याज्ञानमन्धकारं वा तदेव वलं तत्राऽथवा तमस्युक्तरूपे बले च सामर्थ्य प्ररज्यते-रति करोतीति तमोबलप्ररञ्जनः, एवं ज्योतिर्बलारजनः, ज्योतिः -सम्यग्ज्ञानमादित्यप्रकाशो वेति, एवमितरावपि, इहापि त एवं पूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररजनविशेषिताः द्रष्टव्याः। 'परिण्णाय'त्ति, परिज्ञातानि-ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानपरिज्ञया च परिहतानि-कर्माणि-- कृष्यादीनि येन स परिज्ञातकर्मा, नो-न च परिज्ञाताः संज्ञा:-आहारसंज्ञाद्या येन सोऽपरिज्ञातसंज्ञः अभावितावस्थः प्रबजितः श्रावको बेत्येकः, परिज्ञातसंज्ञः सद्भावनाभावितत्वान्न परिज्ञातका कृष्यायनिवृत्तः श्रावक इति द्वितीयः, तृतीयः साधुश्चतुर्थोऽसंयत इति । परिज्ञातका -सावधकरणकारणानुमतिनिवृत्तः कृष्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रबजित इत्येकः, अन्यस्तु परिज्ञातगृहवासो न त्यक्तारम्भो दुष्प्रवजित इति द्वितीयः, तृतीयः साधुश्च
4...00000000000000000000000000000000004+000000000000000000000
11३६५
Jain Education
For Private & Personal use only
Howww.jainelibrary.org