________________
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः । ॥३६॥
गृहवासस्तमावसामि-तत्र पर्ने सम्बाधनं-शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेषः, परिमर्दन तु-पिष्टादेर्मलनमात्र परिशब्दस्य धात्वर्थमात्रवृत्तित्वात् , गात्राभ्यङ्गः-तैलादिनाऽङ्गम्रक्षण, गात्रोपक्षालनम्-अङ्गधावनमेतानि लभे न कश्चिन्निषेधयतीति, शेष कण्ठयमिति चतुर्थी ॥ दुःखशय्याविपरीताः सुखशय्याः प्रागिवावगम्याः, नवर-'हह'त्तिशोकाभावेन हृष्टा इव इष्टा अरोगा-ज्वरादिवर्जिताः, बलिका:-प्राणवन्तः, कल्प(ल्य)शरीराः- पटुशरीराः, अन्यतराणि-अनशनादीनां मध्ये एकतराणि, उदाराणि-आशंसादोषपरिहारतयोदारचित्तयुक्तानि, कल्याणानि, मङ्गलरूपत्वात् , विपुलानि बहुदिनत्वात् , प्रयतानि-प्रकृष्टसंयमयुक्तत्वात् , प्रगृहीतानि आदरप्रतिपन्नत्वात् , महानुभागानि अचिन्त्यशक्तियुक्तत्वात् , (समृद्धानि) ऋद्धिविशेषकारणत्वात् , कर्मक्षयकारणानि मोक्षसाधकत्वात् , तपःकर्माणि-तपःक्रियाः प्रतिपद्यन्ते आश्रयन्ते, 'किमग पुण' ति किं प्रश्ने अङ्गत्यामन्त्रणेऽलङ्कारे वा, 'पुन'रिति पूर्वोक्तार्थवेलक्षण्यदर्शने शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी, उपक्रम्यतेऽनेनायुरित्युपक्रमो-ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी सा चासौ सा चेति आभ्युपगमिकौपक्रमिकी ताभ्यां (तां) वेदनां-दुःखं सहामि तदुत्पत्ताबभिमुखतया, (अस्ति च सहिरवैमुख्यार्थे यथाऽसौ भटस्तं भटं सहते,) तस्मान्न भज्यत इति भावः, क्षमे-आत्मनि परे वाऽविकोपतया तितिक्षामि अदन्यतया अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थानं करोमीत्यर्थः, एकार्था वैते शब्दाः, किं मन्ने' त्ति किं मन्ये इति निपातो वितर्कार्थः क्रियते-भवतीत्यर्थः, 'एगंतसो त्ति एकान्तेन सर्वथेत्यर्थ इति || एते च दुःखसुखशय्यावन्तो निर्गुणाः सगुणाश्च अतस्तद्विशेषाणामेव वाचनीयावाचनीयत्वदर्शनायसूत्रद्वयं, कण्ठय, नवरं 'विगती'त्ति विकृतिः-क्षीरादिका 'अध्यवशमितप्राभृतः' इति प्राभृतम्-अधिकरणकारी कोप
+++000000000000000000000+++222-40+00000000066004808048
Jain Education
For Private & Fersonal use only
| www.jainelibrary.org