________________
......
सू०३२५-३२६॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३६०॥
माणस्स अणहियासेमाणस्स कि मण्णे कज्जइ ?, एगंतसो पावे कम्मे कज्जइ, मम च ण अणब्भोवगमिओ जाव सम्म सहमाणस्स जाव अहियासेमाणस्स कि मपणे कज्जइ ?, एगंतसो णिज्जरा कज्जइ, चउत्था सुहसेज्जा ४ (सू० ३२५) । चत्तारि अवायणिज्जा ५० त०-अविणीए विगतीपडिबद्ध अवितोसवियपाहुडे मायी। चत्तारि वाय. णिजा पं० २०-विणीए अविगतीपडिबद्धे विओसवियपाहुडे अमायी (सू० ३२६)।
'चत्तारी'त्यादि, चतस्रः-चतुःसङ्ख्याः दुःखदाः शय्या दुःखशय्याः, ताश्च द्रव्यतोऽतथाविधखवादिरूपाः भावतस्तु दुःस्थचित्ततया दुःश्रमणतास्वभावाः प्रवचनाश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ स्नानादिप्रार्थन ४विशेषिताः प्रज्ञप्ताः, 'तत्रे 'ति तासु मध्ये 'से' इति स कश्चिद् गुरुका अथार्थों वाऽयं स च वाक्योपक्षेपे 'प्रवचने' शासने दीर्घत्वं च प्राकृतत्वादिति (प्रकटादित्वादिति) शङ्कितः-एकभावविषयसंशयसंयुक्तः, काङ्कितोमतान्तरमपि साध्वितिबुद्धिः, विचिकित्सितः-फल प्रति शङ्कावान् , भेदसमापन्नो-बुद्धिद्वैधीभावापन्न एवमिदं सर्च जिनशासनोक्तमन्यथा वेति, कलपसमापन्नो-नैतदेवमिति विपर्यस्त इति, न श्रद्धत्ते-सामान्येनैवमिदमिति, नो प्रत्येतिप्रतिपद्यते प्रीतिद्वारेण, नो रोचयति-अभिलाषातिरेकेणासेवनाभिमुखतयेति, मन:-चित्तमुच्चावचम्-असमजस निर्गच्छति-निर्याति करोतीत्यर्थः, ततो विनिर्घात-धर्मभ्रंश संसारं वा आपद्यते, एवमसौ श्रामण्यशय्यायां दुःखमास्त इत्येका, तथा स्वकेन-स्वकीयेन लभ्यते लम्भन वा लाभ:-अन्नादे रत्नादेर्वा तेन आशां कारोतीत्याशयति, स नून मे दास्यतीत्येवमिति, आस्वादयति वा-लभते चेत् तद् भुङ्क्त एव, स्पृहयति प्रार्थयति-याचते अभिलपतिलब्धेऽप्यधिकतर-वाञ्छतीत्यर्थः, शेषमुक्तार्थमेवमप्यसौ दुःखमास्त इति द्वितीया, तृतीया कण्ठया, अगारवासो
॥३६०
Jain Education
For Private & Personal use only
www.jainelibrary.org