________________
श्रीस्थानाङ्ग
सूत्र
दीपिका
वृत्तिः
॥२७॥
Jain Education International
येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीला ईषत्सुन्दररूपैवमिति - अनेनैव क्रमेण यावत्करणात् 'एगा कावोयलेस्साण' मित्यादिसूत्रत्रयं दृश्यं तत्र कपोतस्य पक्षिविशेषस्य वर्णेन तुल्यानि यानिद्रव्याणि धूम्राणि इत्यर्थः, तत्साहाय्याज्जाता कापोतलेश्या मनाक् शुभतरा सा लेश्या येषां ते तथा, तेज:-अग्निज्वाला तदवर्गानि यानि द्रव्याणि लोहितानीत्यर्थः, तत्साचिव्याज्जाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्थः, तत्साचिव्याज्जाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ललेश्या अत्यन्त - शुभेति एतासां च विशेषतः स्वरूपं लेश्याध्ययनादव सेयमिति, एवं जस्स जह' ति नारकाणामिव यस्यासुरादेर्या यावत्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यम् । 'भवणे 'त्यादिना तल्लेश्यापरिमाणमाह-अत्र सङ्ग्रहणी - "काऊ नीला किण्हा, लेसाओ तिनि होंति नरपसुं । तइयाए काउनीला [पृथिव्यामित्यर्थः ] terror a faare || १ || [ पञ्चम्यामित्यर्थः ] किण्हानीलाकाऊतेउलेसा य भवणवंतरिया । जोइससोहंमीसाण, तेउलेसा मुणेयव्वा ||२|| कप्पे सणकुमारे माहिंदे चेव बंभलोए य । एएस पम्हलेसा, तेण परं सुकलेसा उ ||३|| पुढवी आउ वणस्सई, वायर पत्तेय लेस चत्तारि । गन्भयतिरियन रेसुं, छल्लेसा तिन्नि सेसाणं ॥ ४ ॥ अयं सामान्यो लेश्यादण्डकः ५ । अयमेव भव्याभव्यविशेषणादन्यः, 'एगा कण्हलेसाणं भवसिद्धियाणं वग्गणे'त्यादि, 'एव' मिति कृष्णलेश्यायामिव 'सुवि' ति कृष्णया सह षट्सु, अन्यथा अन्याः पञ्चैवातिदेश्या भवन्तीति द्वे द्वे पदे प्रतिलेश्यं भव्याभव्यलक्षणे वाच्ये, यथा 'एगा नीललेसाणं भवसिद्धियाणं वग्गणे' त्यादि ६, लेश्यादण्डक एव दर्शनत्रयविशेषितोऽन्यः 'एगा कण्हलेसाणं सम्मद्दिट्टियाण' मित्यादि 'जेसि जड़ दिट्ठीओ ति
For Private & Personal Use Only
सू० ५१
॥२७॥
www.jainelibrary.org